________________
श्रीयशोध.
॥४९॥
ILIGASHIA
इति । गतः शजवर्धनः, मागतश्च स्तोकवेलायाम् , भणितं चाऽनेन-"महाराज ! संसिद्धाः कुमारस्य है।
चरित्रम्, मनोरथाः । शृणोतु महाराजः-गतोऽहमितो राजपुत्र्याः समीपम् । 'महाराजपुरोहित' इति विज्ञाय प्रतीहारेणाऽहं सबहुमानं प्रवेशितः, अभिनन्दितो राजपुत्र्या, दापितमासनम् , उपविष्टोऽहम् । ततो मया 5|
भवीए-१० भणितम्-'राजपुत्रि ! अस्ति किञ्चिद् वक्तव्यम्' इति । तयोक्तम्-'भणतु आर्यः' । मया भणितम्-'राजपुत्रि ! देवाज्ञा इयम् , सावधानीभूय श्रोतव्यम्' इति । ततस्तया सद्य आसनादवतीर्य 'यद् गुरव आज्ञापयन्ति' इत्युक्त्वा बद्धोऽञ्जलिः । ततो मया भणितम्-'राजपुत्रि! इहागच्छतः कुमारस्य साधुदर्शनेन
समुत्पन्नं जातिस्मरणम् , स्मृताच नव भवा, उक्ताश्च तेन, तान् शृणोतु भवती-इहैव क्षेत्रे विशाला नाम ४ नगर्यस्ति । तत्राऽमरदत्तो नाम नरपतिरस्ति । इतश्च अतीते नवमे भवे तस्य पुत्रः सुरेन्द्रदचो नामाऽहमभू
वम् । जननी मे यशोधरा, भार्या च नयनावली आसीत् । यावदेतावन्तं जल्पामि तावद् मोहं गता | राजपुत्री, आकुलीभूतः परिकरः।हा किमेतद् ?' इति विषण्णोऽहं, संसिक्ता चन्दनपानीयेन, लब्धा तया चेतना । मया भणितम्-'राजपुत्रि! किमेतद् ?' इति । तयोक्तम्-'विचित्रता संसारस्य' । मयोक्तम्-'कथं विचित्रता?'। तया भणितम्-'यतःसा एव यशोधराऽहं तस्य कुमारस्य माताऽतीतपर्याये' इत्युक्त्वा कथितं ॥४९॥ कुमारभणितं निजकचरितम् । ततो मया भणितम्-राजपुत्रि! एतेन व्यतिकरण विरक्तं कुमारस्य चित्रं भवचारकाद्, इच्छति स खलु प्रत्रजितुम्, ततो महाराजेन भणितम्-एवं स्थिते किमस्माभिः कर्तव्यमिति'।
HOROSHIRIS H
CURREESAESAECSk