________________
॥६४॥
कमलश्रेष्ट्यादिवत् । तथा " अवश्चिका किया " परव्यसनाहेतुका मनोवाक्कायव्यापाररूपा चेष्टा ॥ यदुक्तम्
तप्प विगविणा तुलापलाईहिं ऊगमन्महियं । लिंतो दितोपि परं न वंचए सुद्धधम्मत्थी ॥१॥ अवञ्च कोपलक्षणात् स्तेनाहृततत्प्रयोगादेरपि वर्जनं अष्टादशप्रसिद्धिपरित्यागपूर्वकम् । ताश्चेमाः
चौर १ चौरापको २ मन्त्री ३ मेदशः ४ काणकक्रयी ५ अन्नदः ६ स्थानद ७ चैव चौरः सप्तविधः स्मृतः ॥ १ ॥ तत्र काणकक्रयी बहुमूल्यमपि अल्पमूल्येन चौराहृतं काणकं हीनं कृत्वा क्रीणाति ।
भळनं १ कुशलं२ तर्जा३ राजभोगो४ऽवलोकनम् ५ । अमार्गदर्शनं शय्या ७ पदभङ्ग७ स्तथैव च ॥ १ ॥ विश्रामः ९ पादपतन १० मासनं ११ गोधनं १२ तथा । खण्डस्य खादनं १३ चैत्र तथाऽन्यम्माहरा जिकम १४ ॥२॥
पद्या १५ ग्न्यु १६ दक १७ रज्जूनां १८ प्रदानं ज्ञानपूर्वकम् । एताः प्रसिद्धयो ज्ञेया अष्टादश मनीषिभिः || ३|| तत्र ' भलनं ' न भेतव्यं भवता तद्विषयेऽहमेव भविष्यामीत्यादिवाक्यैश्वोर्यविषयं प्रोत्साहनम् १ | " कुशलं " मिलितानां सुखदुःखादितद्वार्ताप्रभः २ । " तर्जा " हस्तादिना चौर्य प्रति प्रेषणादिसंज्ञाकरणम् ३ । " राजभोगो " राजभोगद्रव्यापह्नवः ४ । 'अवलोकनं ' हरतां चौराणामुपेक्षा बुद्ध्या दर्शनम् ५। 'अमार्गदर्शन' चौरमार्गपृच्छकानां मार्गान्तरकथनेन तदज्ञापनम् ६ । ' शय्या ' शयनीयार्पणादि । ' पदभङ्गः पश्चाच्चतुष्पदप्रचारादिद्वारेण ८ । 'विश्राम' स्वगृह एव वास काद्यनुज्ञा ९ । ' पादपतनं' प्रणामादिगौरवम् १० । ' आसनं ' विष्टरदानम् ११ । ' गोपनं ' चौरापह्नवः १२ ।' खण्डखादनं ' खण्डमण्डका दिभक्तदानम् १३ । 'महाराजिकं' लोकप्रसिद्धम् १४ । 'पद्याग्न्युदकरज्जूनां प्रदानं" इति प्रक्षालनाभ्यंगाभ्यां दूरमार्गागमन जनितश्रमापनोदित्वेन पादेभ्यो हितं पद्यमुष्णजलतैलादि तस्य दानं