________________
धर्मोपदेश
॥१॥
भईम् वर्धमान-सत्य-नीति-हर्षसरि जैन ग्रन्थमाला ग्रन्थाङ्कः नं. १९ चान्द्रकुल तपागच्छसंविग्नशाखाग्रणी तीर्थोदारक आचार्य श्री विजयनीतिसूरीश्वरसद्गुरुभ्यो नमः
श्रुतधर पूर्वाचार्य प्रणीतधर्मोपदेशसंग्रहः
| चिदानंदस्वरूपाय, रूपातीतायतायिने ॥ परमज्योतिषे तस्मै नमः श्री परमात्मने ॥१॥ | पश्यन्ति योगिनो यस्य, स्वरूपं ध्यानचक्षुषा ॥ दधानाः मनसः शुद्धि तं स्तुवे परमेश्वरम् ॥२॥
जन्तवः सुखमिच्छन्ति निस्तुषं तच्छिवे भवेत् ॥ तद्ध्यानात् तन्मनःशुद्धया कषायविजयेन सा ॥३॥ स इन्द्रियजयेन स्यात् सदाचारादसौ भवेत् ॥ स जायते सूपदेशान्नृणां गुणनिवन्धनम् ॥४॥