________________
धर्मोपदेश॥३३॥
x-xx
वृत्तं, न कस्यापि न्यवेदयत् । परेषां दूषणानीव, प्रायश्चित्तप्रदो गुरुः ||१७|| स कौतुकी द्वितीये तु दिने जाते तमोभरे । प्रागेव शुषिरे तत्र, प्रौढे काष्ठे प्रविष्टवान् ।। १८ ।। तथैवारुह्य ते तत्र, जग्मतुः स्वेप्सितं पदम् । प्रवृत्ते क्रीडितुं मुक्त्वा, तत्काष्ठं क्वापि भूतले ।। १९ ।। अन्या अपि स्त्रियः सन्ति, मिलितास्तत्र भूरिशः । चिरं क्रीडारसस्ताभिः - वक्र तत्राऽवि शङ्कितम् ।। २० ।। तत्कोटराद्विनिर्गत्य कुमारोऽपि भ्रमन् क्वचित् । स्वर्णेष्टिकाभिराकीर्ण- मिष्टिकापाकमैक्षत ॥ २१ ॥ उत्फुल्लनयनश्चेत - स्यचिन्तयदयं तदा । स्वर्णद्वीपो ह्ययं नूनं श्रूयते यो जनोक्तिभिः ।। २२ ।। यः प्राप्य क्लेशकोटीभनिःस्वैः स्वप्नेऽपि नेक्ष्यते । अयत्नेनापि सम्प्राप्तो मया भाग्यं महन्मम ॥ २३ ॥ द्वित्राः स इष्टिकाः साराः, संतोषी जगृहे ततः । मनस्वी नहि लोभी स्यात्, सति लाभेऽपि भूयसि ॥ २४ ॥ तथैव कोटरे तत्र, स संलीनवपुः स्थितः । स्वाङ्गोपाङ्गानि सङ्कोच्य, प्रावृषीव महामुनिः ।। २५ ।। क्रीडिला सुचिरं ते अ-प्यागते तत्र निर्भये । तथैवोत्पतिते व्योम्नि क्रमाच्च गृहमागते ॥ २६ ॥ प्रातःकाले कुमारस्त - वृत्तज्ञापनपूर्वकम् । स्वपित्रेऽदर्शयत्स्वर्ण, विस्मितः सोऽपि तं जग ॥ २७ ॥ अरे मूर्ख ! त्वया स्तोक-मिदमात्तं कथं दद्दा ! यत्नं विनापि हस्तासं धनं को नाम मुञ्चति ॥ २८ ॥ अद्याई तत्र यास्यामि, तल्लास्यामि यथेप्सितम् | दारिद्रये द्रावयिष्यामि, निश्चिन्ता हि भवादृशाः ||२९|| इत्युक्त्वोत्थितवान् श्रेष्टी, लोभक्षोभवशंवदः । तद्ध्यानलीन स्तदह-न्यभूत्तन्दुलमत्स्यवत् ॥ ३० ॥ निशीथिन्यां तथैवैष तत्काष्ठान्तः प्रविष्ठवान्, प्रास्थितः सह ताभ्यां च तं प्रदेशमुपागमत् ॥३१॥ ततो निर्गत्य पुत्रोक्ता - भिज्ञानादि स्मरन् हृदि । इष्टकापाकमद्राक्षीत्, प्रत्यक्षमिव रैगिरिम् ।। ३२ ॥ हृष्टस्तद्दर्शनाच्छ्रेष्ठी, ह्यसन्तुष्टः स इष्टिकाः । गृहीत्वा तत्तथा बभ्रे, कष्टेनामात्स्वयं यथा
संग्रह