________________
धर्मोपदेश॥ १९ ॥
1
पुराद्बहिः । तावत्तत्पुण्ययोगेन, तापसः कोऽप्युपाययौ ॥ ८ ॥ स तानुवाच भो भद्राः !, कोऽयं किमिति मार्यते । ऊचुस्तेयेष पुंरूपो, राक्षसः कोऽपि विद्यते ॥ ९ ॥ कृपया मोचितस्तेन, स तेभ्यः सामयुक्तिभिः । सुरोऽपि तापसीं दीक्षा - मादत्ते स्म तदन्तिके ॥ १० ॥ तप्त्वा तपांसि भूयांसि तस्यैव नृपतेर्वधे । कृत्वा निदानं स मृतो, जातो वायुकु कुमारकः ॥ ११ ॥ वसन्तपुरमागत्य तं भूपप्रमुखं जनम् । रजोभिः स्थगयामास, कटरे ! कोपविप्लवः ॥ ११ ॥ च्युवा ततोऽभूचण्डालः, प्रथमं नरकं ततः । जगाम कोपकिम्पाक-पादपच्छायमाश्रयन् ।। १३ ॥ ततो दृग्विषसर्पो ऽभूद्वितीये नरके ततः । ततोऽप्यनन्तसंसारं भ्रान्तः कोपविडम्बितः || १४ || भूयस्यथ गते काले, श्रीपुरे रत्नभूभृतः । सूरजीवोsभवदग्रामा-ध्यक्षो ब्राह्मणनन्दनः ॥ १५ ॥ तथैव कोपनत्वेन स नृपेण सहान्यदा । कुर्वाणः कलहं राज-भटेरुल्लम्बितो वने ॥ १६ ॥ चतुर्ज्ञानधरं तत्र प्राप्तं मुनिवरं तदा । आगतो वन्दितुं राजाऽशृणोत्तद्देशनामिति ॥ १७ ॥ भोः भोः ! भीमभवारण्ये, स्थिताः किं १ नश्यत द्रुतम् । यद्वद्भवैरा धावन्ति, वैरिणो वोऽनुगामिनः ॥ १८ ॥ वैरिणः क इति क्ष्माप - पृष्टो ज्ञानी पुनर्जगौ । कषायास्तेष्वपि क्रोधो, धत्ते वैरिषु धुर्यताम् ॥ १९ ॥ योऽयमुल्लम्बितो वृक्षे, पुरस्ताद्वीक्ष्यते नरः । इदं क्रोधफलं विद्धि. सर्वानर्थनिबन्धनम् || २० || सूरजन्मप्रभृतिकं तच्चरितं तदाऽखिलम् । श्रुत्वा ज्ञानिमुनिप्रोक्तं, प्रतिबुद्धा नृपादयः ॥ ११ ॥ केचित्तस्यान्तिके दीक्षां श्राद्धधर्म च केचन । स्वीकृत्याभिग्रहादींश्च, स्वस्वकार्याण्यसाधयन् ॥ २२ ॥ सूरजीवोऽपि स क्ष्माप-च्छोटितः शान्ततां भजन् । दीक्षामादाय सञ्जातः सर्वसौख्यैकभाजनम् ॥ २३ ॥ स्त्रीरूपाऽपि क्षमवैका, क्रोधयोधं जयत्यमुम् । गुणाः परे तु तं जेतुं, पुंरूपा अपि न क्षमाः ॥ २४ ॥ आक्रुष्टोऽपि हतो वापि न बालैः
संग्रह