________________
संग्रह
पुरतोऽधना ॥४९॥ ततो मगधसेना स्वं, गीतनृत्यादिकौशलम् । संसदोऽदर्शयत्तस्या, विस्मयो नामवत्परम् ॥५०॥ धर्मोपदेश॥९॥
सर्वानाद्भुतसौभाग्या, कलां दर्शयितुं निजाम् । रामण्डपमायासीत्ततो मगधसुन्दरी ॥ ५१ ॥ रत्नस्वर्णाचलङ्कारस्फारोदारवपुःश्रियम् । उत्फुल्ललोचनः कस्को, नापश्यद्विस्मयेन ताम् ? ॥५२॥ विषमिश्रमहामूचि-संयुताय तु तद्भुवि । कणिकारद्वपुष्पाणि, न्यग्मुखानि दुराशया ।। ५३ ॥ कलिकाः सहकारणां, तेषामुपरि सर्वतः । मोचिता गुरुणा स्वेन, तया मगधसेनया ॥ ५४ ॥ विमुच्य कर्णिकाराणि, सौरभ्यनिभृतान्यपि । पतन्तीं भ्रमरणिं, प्रत्याम्रकलिकोत्करम् ॥५५॥ माता मगधसुन्दर्या, विदग्धाऽऽवलिमण्डनम् । निधाय कथयामास, गीतमध्येन तद्यथा ॥ ५६ ॥ भ्रमराः कर्णिकाराणि, दरतः सुरभीण्यपि । विमुच्य सहकाराणां, मञ्जरी समुपासते ॥५७ ।। अर्थतः त्रिभिर्विशेषकम् ।। विज्ञाय तदभिप्राय, | साऽपि वक्रोक्तिकोविदा। अपमत्ततया तानि, परित्यज्याखिलान्यपि ।। ५८ ॥ सृजन्ती चरणन्यासं, गीतनृत्यकला
निजाम् । अदर्शयत्तया तत्र, दक्षा मगधसुन्दरी ॥५९॥ अमन्दानन्दनिस्पन्द-मन्ना राजादयो यथा । हेममाणिक्यरत्नानि, है। तदुस्तस्यै यथोचितम् ।।६०॥ त्रिभिर्विशेषकं ॥ कलावतीषु सर्वासु, तथा पण्याङ्गनास्वसौ । छत्रचामरसंयुक्तां, लेभे जयपता
किकाम् ॥ ६१ ॥ लोके मगधसेना तु, भूमृताधपमानिता । स्वनाट्यगुरुणा साकं, लेभे सर्वत्र लाघवम् ॥६२ ॥ एवं यः पुण्यकार्येषु, न प्रमादं सृजेजनः । सोऽभीष्टां लभते सिद्धि, सुखसंभारशालिनीम् ॥ ६३ ॥ निशम्येति गुरोः पार्श्वे, संवेगरससागरः । शिश्राय संयम राजा, निजान्तःपुरसंयुतः ॥ ६४॥ युवराजस्ततो राज्येऽभिषिक्तः सचिवादिभिः। राजेन्द्रलक्षणश्रेणिलक्षितो मेघवाहनः ॥६५॥ नरवाहनराजर्षि, वन्दित्वा मेघवाहनः । सद्दर्शनसखं भाद्धधर्ममार्गमशिनियत् ॥६६॥
१ झवु-टपक.
SONOMOUSCUCUCHER
NAGARIHARANA