________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६
“ अथ श्री सौभाग्याष्टेत्तरशतनामस्तोत्रम्" ।
" संकल्पः " अद्येत्यादि मम श्री राजराजेश्वरी महात्रिपुरसुंदरी सर्वाभीष्टसिद्धर्थ श्री सौभाग्याष्टोत्तर
देवताप्रसादसिद्धिद्वारा शतनामस्तोत्र पाठाख्यं कर्म करिष्ये ॥
अस्य श्री सौभाग्याष्टोत्तरशतनाम स्तोत्रमंत्रस्य आनंदभैखऋषिः । अनुष्टुप्छदः । श्री महात्रिपुरसुंदरी देवता । ऐ बीजं । सौः शक्तिः । क्लीं कीलकम् । श्री महात्रिपुरसुंदरी प्रसाद सिद्धर्थे पाठेविनियोगः ॥ ऋष्यादिविन्यस्य ॥ मूलेन द्विरावृत्या करषडंग विधाय ध्यायेत् । यथा
आनंदभैखऋषेय नमः शिरसि नम अनुष्टुप्छंद से मुखे । श्री महात्रिपुरसुंदरी देवतायै नमः हृदये । ऐ बीजाय नमः गुझे । सौः शक्तये नमः पादयोः । क्लीं कीलकाय नमः नामौ । मम श्री महात्रिपुरसुंदरीप्रसाद सिध्यर्थे पाठे विनियोगाय नमः सर्वांगे । कूटत्रयेण द्विरावृन्या करषडंगी ||
|| ध्यानम् ॥
बालार्कमंडलाभासां चतुर्बाहु त्रिलोचनाम् । पाशांकुशधनुर्बाणा धारयंती शिवां भजे || इति ध्यात्वा मानसैः संपूज्य योनिमुद्रया प्रणमेत् । ॥ अथ नमोन्तसौभाग्याष्टोतरशतनामावलि ॥
|| संकल्पः ॥ अद्येत्यादि० मम श्रीरजराजेश्वरोमहात्रिपुरसुंदरी देवता सिद्धिद्वारा सर्वाभीष्टसिद्धर्थं सौभाग्याष्टोत्तरशतनामभिः अमुकद्रव्यसमर्पण करिष्ये ।
अस्यश्री सौभाग्याष्टोत्तरशतनाम मालामंत्रस्येत्यादि पूर्ववत् ऋष्यादिन्यासान्विधाय करषडंग कृत्वा वालो की तुध्यात्वा - मानसोपचारः संपूज्य योनिमुद्रयाप्रणम्य नामानिपठेत् ॥
For Private and Personal Use Only