________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवीमानसपूजा। श्रीमंत्रमातृकापुष्पमाला।
कल्लोलोल्लसितामृताब्धिलहरीमध्ये विराजन्मणि
द्वीपे कल्पकवाटिकापरिवृत्ते कादम्बवायुज्ज्वले । रत्नस्तम्मसहस्रनिर्मितसभामध्ये विमानोतमे
चिन्तारत्नविनिर्मित जननि ते सिंहासनं भावये ॥१॥ एणाङ्कानलभानुमण्डललसच्छीचक्रमध्ये स्थितां
बालार्कद्युतिभासुरां करतलैः पाशाङ्कुशौ बिभ्रतीम् । चापं बाणमपि प्रसन्नवदनां कौसुम्भवस्त्रान्वितां
तां त्वां चन्द्रकलावतंसमुकुटां चारुस्मितां भावये ।।२।। ईशानादिपदं शिवैकफलक रत्नासन ते शुभं
पाद्यकुंकुमचन्दनादिभरितैरव्यं सरत्नाक्षतैः । शुद्धराचमनीयक तव जलभक्त्या मया कल्पित
कारुण्यामृतवारिधे तदखिल सन्तुष्टये कल्षताम् ॥३॥ लक्ष्ये योगिजनस्य रक्षितजगज्जाले विशालेक्षणे
प्रालेयाम्बुपटीरकुंकुमल कपूरमिश्रोदकः । गोक्षीरैरपि नारिकेलसलिलैः शुद्धोदकमन्त्रितैः
__ स्नानं देवि धिया मयैतदखिलं सन्तुष्टये कल्पताम् ।।४।। हींकाराङ्कितमन्त्रलक्षिततनो हेमाचलात्संचितैः
रत्नरुज्ज्वलमुत्तरीयसहितं कौसुम्भवर्णांशुकम् । मुक्तासन्ततियज्ञसूत्रममलं सौवर्णतन्तूव
दत्तं देवि धिया मयैतदखिलं सन्तुष्टये कल्पताम् ।।५।।
For Private and Personal Use Only