________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६१
इति पुष्पाञ्जलि दत्वा पूर्ववत् पात्र पुनःपुनरादायाचमनोक्त मन्त्रः तत्त्वानि शोधयेत् । यथा-ऐं ह्रीं श्री मूलं प्रथमखज्डं आत्मतत्त्वेन स्थूलदेह परिशोधयामि । ३ मूलं द्वितीयखण्डं विद्यातत्त्वेन सूक्ष्मदेह परिशोधयामि । ३ मूल तृतीयखण्डं शिवतत्वेन कारणदेह परिशोधयामि । ३ समग्रमूलं सर्वतत्वेन महाकारणदेह परिशोधयामि ।
अथ प्रथमपावस्वीकारे एवोत्थान यथासंप्रदाय सर्व पात्र. स्वीकारेऽपिा स्त्रीणां तूत्थायैव । अत्र गुरोस्तच्छक्तिसुतज्येष्ठकनिष्ठानां द्रव्याग्रुपपादनं यथासंप्रदाय विधेयम् । इति तत्त्वशोधनम्।
अथ उद्वासनम् । सामान्याोदकात् किञ्चिज्जलमादाय
साधु वा साधु वा कम यद्यदाचरितं मया ।
तत्स, कृपया देवि गृहाणाराधनं मम ।। इति देव्या वामहस्ते समय॑ सामयिकमात्मानं च मुलेन संप्रोक्ष्य शंखं प्रक्षाल्य निदध्यात् ।
___ ततो मूलेन तीर्थ निर्माल्यं स्वीकृत्यज्ञानतोऽज्ञानतो वापि यन्मयाचरितं शिवे ।
तव कृत्यमिति ज्ञात्वा क्षमस्व परमेश्वरि ।। इति क्षमाप्य सर्वासामावरणदेवतानां श्रीदेव्यङगे ल्यं विभाव्य खेचरों बद्धवा उद्वास्य तेजारूपेण परिणतां श्रीदेवी पूर्ववत् हृदये नीत्वा तत्र च मुति पचधोपचर्य पुनरात्माभिन्नं संविद्रपेण विभावयेदित्युद्वासनम् । ततः शान्तिस्तवं पठेत् ।
For Private and Personal Use Only