________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५७
क्षणमवलम्ब्य श्रीदेवी भुक्तवती विभाव्य पूर्ववत् उपचार - मन्त्रैः पानीयोत्तरापोशनं करप्रक्षालनगण्डूषपाद्यादि कल्पयित्वा भोजनपात्र नैर्ऋत्यां निरस्य अस्त्रेण स्थल संशोध्य पुनः प्राग्वदाचमनीय कर्पूरवीटिकादिकं दत्वा निराजयेत् । निराजनम् ।
Acharya Shri Kailassagarsuri Gyanmandir
सुवर्णादिभाजनलिखित कुंकुपपङ्क रेखात्म काष्टदलकणिकास्थापितमणि मयचषक पूरितं प्रथमं प्रज्वाल्य पुष्पाक्षतैरभ्यर्च्य उपचारमन्त्रपूर्वकं । अन्तस्तेजो बहिस्तेजो एकीकृत्यामितप्रभम् । त्रिधा देव्युपरिभ्राम्य कुलदीप निवेदये ॥ इति चतुर्दशधा नवधा त्रिधा वा परिभ्राम्य दक्षभागे स्थापयेत् । अप पुष्पाञ्चलिः
अथान्जली पुष्पाण्यादाय मन्त्रपूर्वकं -
शिवे शिवसुशीतलामृततरङ्गगन्धोल्लसन्
नवावरणदेवते नवनवामृतस्यंदिनी । गुरुक्रम पुरस्कृते गुणशरीर नित्योज्ज्वले
परिवारिते कलित एष पुष्पाज्जलिः ||
इति पुष्पाञ्जलिं समर्पयेत् ।
अथ कामकलात्मिकां श्रीदेवीं ध्यात्वा प्रणमेत् । बलिदानम् ।
होमस्तु कृताकृतः होमाकरणे तु बलिदानमात्रम् । यथा देव्याः दक्षभागे सामान्यार्थ्यादकेन त्रिकोणवृत्तचतुरस्रात्मकं मण्डल परिकल्प्य ऐं ह्रीं श्रीं व्यापकमण्डलाय नमः इति गन्धादिभिरभ्य अर्धभतभरितोदक' सक्षीरादिपात्रत्रयं तत्र विन्यस्य । ऐं ह्रीं श्रीं ॐ ह्रीं सर्वविघ्नकृद्भ्यः सर्वभूतेम्यो हुं फट् स्वाहा ।
इति मन्त्रं त्रिः पठित्वा दक्षकरापितवामकरतत्र मुद्रोत्सृष्टसलिलं बल्युपरि दला वामपाणिघातक शस्फोटौ कुर्वाणः बाणमुद्रया बलि भूतैर्ब्राहयित्वा प्रणमेत् । इति बलिदानम् ।
For Private and Personal Use Only