________________
Shri Mahavir Jain Aradhana Kendra
ततो देवीं ध्यायेत् -
www.kobatirth.org
१८
सकुंकुमविलेपनाम लिकचुम्बिकस्तूरिकां समन्दहसितेक्षणां सशरचापपाशांकुशाम् ।
Acharya Shri Kailassagarsuri Gyanmandir
अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ॥
इति ध्यात्वा मानसैरुपचर्य लं वं रं यं हं इति भूतमन्त्रैः सप्तधा मूलेन च त्रिवारं जलमभिमन्त्रय धेन्वाऽमृतीकृत्य तज्जल वामकरे संगृह्य दक्षिणकरेण तत्रमुद्रयामातृकाभिर्मूलेन वा त्रिः शिरसि मार्जयेत् । अथाऽघमर्षणम् ।
.
मार्जनाऽवशिष्टं जलं बामहस्ते गृहीत्वा तेजोरूपं तज्जल इडयाssकृष्य स्वदेहान्तःस्थ सकलकलुषप्रक्षालनस्य भावनां कृत्वा पिङ्गलया निःसार्य दक्षिणहस्ते गृहीत्वा तज्जल' स्ववामभागे कल्पितवज्रशिलायां ॐ श्लीं पशु हुं फट् इति पाशुपताऽस्त्रेण प्रक्षिपेत् । हस्तौ प्रक्षाल्य पुनजेल हस्ते गुहला सदसदल कमल कर्णिकानिःसृतं जल विभाव्य वामहस्ते गृहीत्वा दक्षिणेन तत्त्वमुद्रया ॐ अमृतमालिनो स्वाहा । इति स्वशरसि त्रिर्मार्जयेत् ।
ततो मूलेनाचम्य जलं गृहीत्वा प्रथमकूटं ऐं ह्रीं श्रीं कईलहीं गोश्वरो विद्महे । द्विनायकूटं ऐं ह्रीं श्रीं इसकहल ही कामेश्वरो धीमहि । तृतीयकुटं ऐं ह्रीं श्रीं सकलहू तन्नः शक्तिः प्रचोदयात् । सूर्यमण्डलम्थायै श्रीमहात्रिपुरसुन्दय एषोऽर्घः इति श्रीन् अर्ध्यान् दत्वा पुनर्जलमादाय ॐ ह्रां ह्रीं सः श्रीसूर्याय एषोऽर्ध्य इति त्रिवारम समय मूलेन श्रीमहात्रिपुरसुन्दरीपादुकां सम्पूज्य त्रिःसन्त सूर्यमपि त्रिवार तर्पयित्वा देवों ध्यायेत् ।
For Private and Personal Use Only