________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्राह्यम् । इह यद्यपि भगवतः सिद्धिगर्मने कामो नास्ति, तथापि तदानुरूपवेष्टनात् संप्राप्तुं काम इव संप्राप्सुकामः, तत्र असंप्राप्त इत्यर्थः । “वंदामि भगवंतं तत्थ गयं" तत्र ब्राह्मणकुंडग्रामे देवानन्दाकुक्षिगतं अहं "इह गए त्ति" सौधर्मे स्थितः सन्, “पासउ मे भयवं तत्थ गए इह गयंतिक?" पश्यतु मां भगवान् नत्र गतः इह गतं मां! इति कृत्वा-इति भणित्वा श्रमणं-भगवन्तं महावीरं, वन्दते-पूर्वोक्तस्तुत्या नमस्यति, शिरोनमनेन सिंहासने | पूर्वाभिमुखः “सन्निसन्ने” उपविष्टम् । तत्र किं कृतवान् ? इत्याह-"तए णं तस्स."। ततः तस्य इन्द्रस्य एतद्रूपः सङ्कल्प उत्पन्नः । कीदृशः सङ्कल्पः । “अन्भत्थिर" आत्मनि अधि अध्यात्म, तत्र भव आध्यात्मिक आत्मविषय इत्यर्थः । पुनः कीदृशः। "चिंतिए” चिन्तात्मको न ध्यानात्मकः, सच अप्रार्थितोऽपि स्यात् । अतः S"पत्थिए" प्रार्थना संजाता अस्मिन् इति प्रार्थितः, अभिलाषात्मक इति भावः। पुनः कीदृशः । “मनो*गतः” । कः सङ्कल्पः? इत्याह* न खल्लु एयं भूअं, न एयं भवं, न एयं भविस्सं, जं णं अरिहंता वा चक्कवट्टी वा बलदेवा 2 वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा तुच्छकुलेसु वा दरिदकुलेसु वा किवणकुलेसु
वा भिक्खागकुलेसु वा माहणकुलेसु वा, आयाइंसु वा, आयाइंति वा आयाइस्संति वा ॥१६॥ १ "मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमः ।।" इति वचनात्।
For Private and Personal Use Only