________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बहूनां देवानां बहूनां देवीनां च मध्यगतः 'चेच त्ति' अवधारणे मध्यगत एव, न पुनः एकान्ते अनेन उद्घाट्यशिरा इति उक्तः, एवं आख्याति यथोक्तं कथयति १ एवं भाषते वाग्योगेन २ एवं प्रज्ञापयति अनुपालितस्य फलं ज्ञापयति ३ एवं प्ररूपयति दर्पणतल इव प्रतिरूपं, श्रोतृणां हृदये प्रतिरूपं सङ्कामयति ४ इदानीं आख्येयस्य नामधेयमाह-पर्युषणाकल्पं नामाध्ययनं भूयो भूयो बारं वारं विस्मरणशीलश्नोतृणां अनुग्रहणार्थ उपदर्शयति अनेकशः प्रदर्शयति । किंविशिष्टं पर्युषणाकल्पाध्ययन ? । साथै प्रयोजनयुक्तं, न पुन: अन्तर्गडकण्टकशाखामर्दनवद् अभिधेयशून्यं तथाविधवर्णानुपूर्वीमात्रबद्धं १ सहेतुकं, हेतु-दोषदर्शनं-अननुपालयतोऽमी दोषा इति । यद्वा "सवीसइराए मासे वइते" इत्युक्ते को हेतुः ? । “पाएणं अगारीणं अगाराई" इत्यादिकः। सकारणं कारण अपवादो यथा-"आरेणा वि कप्पह पलोसवित्तए" तेन सहितं, सकारणं ससूत्रं सार्थ सोभ. यमिति पदत्रयं प्रतीतं । अर्थसार्थकत्वं कथं अध्ययनस्य ? । नहि अत्र टीकादौ इव अर्थः पृथक पृथग् व्याख्यातोऽस्ति । सत्यं, सूत्रस्य अर्थेन अन्तरीयकत्वाद् अदोषः। तथा सब्याकरणं पृष्ठापृष्टार्थकथनं व्याकरणं तत्सहितमिति "इति बेमि ति" इति ब्रवीमि इति श्रीभगवाहुखामी स्खशिष्यान् प्रति ब्रूते-न इदं स्वमनीषिकया ब्रवीमि, किंतु तीर्थङ्करगणधरोपदेशेन इति, इतेः खरात् 'तस्येश्च द्विः' इति सूत्रेण इलोपे तकारस्य च द्वित्वे “उव
से ति" रूपं । पलोसवणाकप्पो सम्मत्तो ति” पर्युषणाकल्पा समाप्त इति, पर्युषणावर्षासु एकक्षेत्रनिवासः तस्य संबन्धी कल्पः सामाचारी साधून प्रतीत्य विधिप्रतिषेधरूपा कर्तव्या इति, तदभिधेययोगात् अध्ययन
For Private and Personal Use Only