________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं कल्पलता व्या०९
त्रयोदशी सामाचारी
॥२५५॥
लोदनः २ एवं तन्दुलोदनोऽभिलिङ्गसूपश्च एतत् द्वयमपि पश्चादायुक्तं तदा द्वयमपि ग्रहीतुं साधोः न कल्पते ३। एवं यदि द्वयमपि एतत् पूर्वायुक्तं तदा द्वयमपि साधोः ग्रहीतुं कल्पते । पुनः सङ्ग्रहं आह-"जे से" इत्यादि । यः तत्र साध्वागमनात् पूर्वायुक्तः "से" तस्य साधोः ग्रहीतुं कल्पते, यतः तत्र साध्यागमनात् पश्चादायुक्तः "से" तस्य साधो न ग्रहीतुं कल्पते इत्यर्थः३। तथा वर्षाकाले स्थितस्य साधोः भिक्षार्थ प्रविष्टस्य वृष्टिसद्भावेन आरामे वा, उपाश्रयस्य अधो वा, विकटगृहस्य अधो वा, वृक्षमूलस्य अधो वा, स्थितस्य साधोः न कल्पते । पूर्वगृहीतेन भक्तपानेन वेलां अतिक्रमयितुं, तत्र च तिष्ठतः कदाचित् वर्ष नोपरमति तत्र का मर्यादा ? इत्याह-कल्पते तस्य साधोः विकटं उद्गमादिदोषशुद्धं भुक्त्वा पीत्वा च पतद्ग्रहं संलिख्य २/X संप्रमाये २ एकत्र आयतं-सुबद्धं भाण्डक-पात्रकादिकं उपकरणं कृत्वा वपुषा सह प्रावृत्य वर्षत्यपि अनस्तमिते सूर्य यत्रैव उपाश्रयः तत्रैव आगन्तुं कल्पते, परं नो कल्पते तस्य साधोः तत्रैव तां रात्रिं अतिक्रमितुं, कथं तत्र बहिर्वसतां बहवो दोषाः, एकस्य तु आत्मपरोभयसमुत्थाः, साधयो वा वसतो अधृति कुर्वन्ति
पुन: वर्षाकाले स्थितस्य साधोः विकटगृहवृक्षमूलादौ तिष्ठतः । केन विधिना स्थातव्यं ?, इत्याह-एकः साधुः एकया साध्व्या सह तत्र स्थाने न तिष्ठेत् । कथं ?, शङ्कादिदोषसद्भावात् । कथं एकाकित्वं साधोः, इति उच्यते-सङ्घाटिक उपोषितो वा १ असुखितो वा २ कारणिको वा ३ स्यात् एकाकी १। अत्र चतुर्भङ्गी एवंएकः साधुः एकया साध्या समं न तिष्ठेत् १ एवं एकः साधुः साध्वीद्वयेन समं अपि नो तिष्ठेत् २ एवं साधु
*
॥२५५॥
For Private and Personal Use Only