SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir वाचनाभिः पठ्यते तथा एकैकया वाचनया पठितं । साधुभिः विचारित-"यदि गुरवः कियन्तं कालं विल*म्बन्ते तदा वरं, यथा अस्माकं शीघ्रं श्रुतस्कन्धः पूर्णो भवति ।" तत आगतः गुरुभिः पृष्टं-"भो! भवतां * सुखेन वाचना जाता ?।” तैः प्रोक्तं-"अतः परं अस्माकं वाचनाचार्यों वज्र एव भवतु ।" पश्चात् गुरुणा स्वयमपि वज्राय ११ एकादशाङ्गवाचना दत्ता । ततो वज्रस्वामिना दशपुरात् उज्जयिन्यां गत्वा गुर्वाज्ञया श्रीभद्र-10 गुप्ताचार्यसमीपे दशपूर्वाणि अधीतानि । ततः आचार्यपदे स्थापितो गतः पाटलीपुरे, 'रूपेण मा लोकानां * मनाक्षोभो भवतु' इति व्याख्याने रूपं संक्षिप्य सामान्य रूपं कृत्वा राजादीनां अग्रे देशना दत्ता। द्वितीयदिने साधुभिः लोकमुखात् श्रुतं-"अहो ! गुरूणां देशना अमृतस्राविणी, परं न तादृशं रूपं ।” गुरुभिः साधुमुखात् श्रुत्वा सहस्रदलवर्णकमलोपरि स्थित्वा खाभाविकदिव्यरूपेण धर्मोपदेशो दत्तः । सर्वेऽपि लोका विस्मयं प्राप्ताः । पुनरपि यो धनश्रेष्टिपुत्री रुक्मिणी साध्वीभ्यः पूर्वं प्रभु [वज्र] गुणश्रवणेन जातानुरागां * पित्रापि धनकोटिसहितां दीयमानां प्रतिबोध्य प्रात्राजयत् । पुनः येन वज्रखामिना पदानुसारिलब्ध्या श्रीआ चाराङ्गमहापरिज्ञाऽध्ययनाद् यस्य मानुषोत्तरपर्वतं यावद्गमनविषयः सा आकाशगामिनी विद्या उद्धृता। *पुनः योऽन्यदा उत्तरस्यां दिशि दुर्भिक्षे जाते श्रीसङ्घ पद्दे संस्थाप्य पानीयग्रहणार्थं गतं दत्तनामार्थ शय्यातर-* मपि लोचकरणेन 'साधर्मिकोऽहं भवतां' इति वदन्तं पटे आरोप्य आकाशं स्थित एव स्थान-स्थाने मार्गे-मागें| चैत्यानि वन्दमानो महानसीं पुरीं प्रापयामास । तत्र तु सुभिक्षं परं बौद्धो राजा श्रीपर्युषणापर्वणि समागते For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy