________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सविरावल
कल्पसूत्रं कल्पलता व्या०८
॥२१७॥
FoxoxooXXXXXXX
सिर सिजंभवे थेरे अंतेवासी मणगपिया वच्छसगुत्ते ४, थेरस्स णं अजसिजभवस्स मणगपिउणो वच्छसगुत्तस्स अज्जजसभदे थेरे अंतेवासी तुंगियायणसगुत्ते ५॥५॥ अथ व्याख्या लापनिकामात्रेण-"समणे भगवं महावीरे" श्रीमहावीरस्य अन्तेवासी अग्निवैश्यायनगोत्रीयः श्रीसुधर्मखामी १, श्रीसुधर्मस्वामिनोऽन्तेवासी काश्यपगोत्रीयः जम्बूखामी २, श्रीजम्बूस्वामिनोऽन्तेवासी कात्यायनगोत्रीयः श्रीप्रभवस्वामी ३, श्रीप्रभवस्वामिनोऽन्तेवासी मनकपिता वत्सगोत्रीयः शय्यम्भवः ४, शय्यम्भवस्य अन्तेवासी तुझियायनगोत्रीयो यशोभद्रः ५, अथ एतेषां पश्चानां स्थविराणां सम्बन्धः अनुक्रमेण एवं ज्ञेयाः, तथाहि-अथ श्रीवीरपट्टे श्रीसुधर्मस्वामी, तस्य सम्बन्धोऽयं, तथाहि-कुल्लागसन्निवेशे धम्मिल्लनामा ब्राह्मणः, तस्य भार्या भहिला, तयोः पुत्रः सुधर्मा, १४ चतुर्दशविद्यानिधानं पञ्चाशत् वर्षान्ते श्रीवीरसमीपे दीक्षा ५०, त्रिंशद्वर्षाणि यावद्वीरचरणकमलसेवा ८०, द्वादशवर्षाणि श्रीवीरमोक्षात् छद्मस्थावस्थायां स्थितः९२, अष्टौ वर्षाणि केवलपर्यायः १००, एवं सर्व वर्षशतं आयुःप्रपाल्य श्रीजम्बूस्वामिनं स्वकीयपट्टे स्थापयित्वा मोक्षं गतः॥१॥अथ-श्रीजम्बूस्खामिचरितमिदम्-एकदा श्रीमहावीरदेवसमवसरणे अनेकदेवचतुरग्रदेवी- सहितो महातेजःपुञ्जविराजमानो देवो वीरं वन्दितुं समागतः, तदा श्रेणिकेन पृष्टं-“हे स्वामिन् ! अस्य देवस्य एतादृशी विस्मयकारिणी अधिका कान्तिः कथं? " ततः खामिना प्रोक्तं-“हे श्रेणिक ! अनेन देवेन पूर्वभवे
॥२१७॥
*
For Private and Personal Use Only