________________
Shri Mahavir Jain Aradhana Kendra
www kobirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| लोअं करेइ, करिता अट्टमेणं भत्तेणं अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागएणं एगं
देवदूसमादाय तीहिं पुरिससरहिं सद्धिं मुंडे भवित्ता अगाराओ अणगारियं पवइए ॥ १५७॥ | अस्य आलापकस्य ब्याख्या पूर्ववत् ज्ञेया। अर्थलापनिका तु इयं, तथाहि-"पासे णं अरहा" श्रीपार्श्वनाथो दक्षो दक्षप्रतिज्ञो विनीतश्च जातः । त्रिंशत् वर्षाणि गृहस्थवासे स्थितः, ततो लोकान्तिकदेवैः प्रतिबोधितः सन् वार्षिकदानं दत्वा, शीतकालस्य द्वितीये मासे तृतीये पक्षे, एतावता पौषस्य एकादशीदिवसे पूर्वाह्नकाले विशालायां-शिविकायां स्थितो, देवमनुष्यासुरपर्षदा समनुगम्यमानो बाणारसीनगरमध्ये भूत्वा यत्रैव आश्रमपदं नाम उद्यान, यत्रैव अशोकनामा वृक्षः तत्रैव आगच्छति, आगत्य च शिविकां स्थापयति, स्थापयित्वा शिविकातः उत्तरति, उत्तीर्य च स्वयं एवं आभरणालङ्कारं मुञ्चति मुक्त्वा च खयं एव पञ्चमुष्टिक जालोचं करोति, कृत्वा च चतुर्विधाहारेण अष्टमेन तपसा विशाखानक्षत्रे चन्द्रेण समं योगं वर्तमाने एकं|
देवदूष्यवस्त्रं स्कन्धे समारोप्य, त्रिभिः पुरुषशतैः सार्धं मुण्डो भूत्वा अगारात् अनगारतां अङ्गीकृतवान् , दीक्षां जग्राह इत्यर्थः ।।
अथ दीक्षाग्रहणानन्तरं श्रीभगवान् कीदृशः सन्, किं करोति !, तत्राहपासे णं अरहा पुरिसादाणीए तेसीइं राइंदियाइं निचं वोसट्टकाए चियत्तदेहे
For Private and Personal Use Only