________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
अथ श्रीभगवति निर्वाणं प्राप्ते पश्चात् कियति काले लोकसमक्षं कल्पवाचना जाता?, तत्राहसमणस्स भगवओ महावीरस्स जाव सवदुक्खप्पहीणस्स नव वाससयाई विइकंताई दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ, वायणंतरे पुण अयं तेणउए संवच्छरे काले गच्छइ इइ दिसइ ॥ १४८ ॥ २४ ॥ इति ॥ व्याख्या-"समणस्स भगवओ" श्रीवीरनिवृतेः नवसु वर्षशतेषु अशीत्यधिकेषु इयं वाचना जाता इत्यर्थे व्याख्यायमानेन तथा, चतुराणां प्रीतिः अस्य सूत्रस्य श्रीवीरनिर्वाणात् [१७०] ससत्यधिकवर्षशतोत्पलश्रीभन्द्रबाहुना प्रणीतत्वात् । तस्मात् इयति काले इयं वाचना पुस्तकेषु न्यस्तेति संभाव्यते। देवर्द्धिगणिक्षमाश्रमणैर्हि व्यवच्छित्तिं दृष्ट्वा, इयति काले सर्वे ग्रन्थाः पुस्तकेषु न्यस्ता, इत्यत एव तत्र ग्रन्थे वक्ष्यमाणस्थविरावलीमान्ते देवर्द्धिगणिनमस्कारं वक्ष्यति । पूर्वे तु गुरुशिष्याणां श्रुताध्ययनाध्यापनब्यबहारपुस्तकनिरपेक्ष एवं प्रववृते । केचित्तु इदं आहुः-यदि यत्कालातिक्रमे ध्रुवसेननृपस्य पुत्रमरणार्तस्य समाधये आनन्दपुरे सभायां अयं ग्रन्थो वाचयितुं आरब्धः इति । बहुश्रुता एव यथावत् बिदन्ति । विनवतियुतवर्षनवशतपक्षेषु इयता कालेन पञ्चम्याः चतुया पर्युषणापर्व प्रववृते । तेणअनवसरहिं, समइक्वतेहिं पद्माणाओ। पजोसवणचउत्थी, कालगसूरीहितो ठविआ ॥१॥ वीसहि दिणेहिं कप्पो, पंचगहाणीइ कप्पठवणा य ।
For Private and Personal Use Only