________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणधरवादः
कल्पसूत्रं कल्पलता व्या०५
॥१५१॥
विद्यमानभोक्तृकं भोग्यत्वात्, ओदनादिवत्, यथा-क्षीरे घृतं, तिलेषु तैलं, काष्टे अग्निः, पुष्पे सौरभ्यं, चन्द्रकान्ते सुधा, तथा जीवोऽपि देहान्तर्गतो ज्ञेयः, शरीरात् पृथक्” इति श्रीवीरमुखात् वेदपदानां अर्थ ज्ञात्वा जीवसत्तां च अङ्गीकृत्य, संशयं छित्त्वा, श्रीभगवतः समीपे पञ्चशतनिजशिष्यब्राह्मणैः सह दीक्षा जग्राह, त्रिपदीं लात्वा द्वादशाङ्गी निर्ममे ॥ इति गौतमदीक्षा ॥ इति प्रथमो गणधरः ॥१॥ | अथ अग्निभूतिः द्वितीयो भ्राता गौतमं प्रबजितं श्रुत्वा चिन्तयति-"इदं कथं भवति ? न हि पर्वतो द्रवेत् , न हि जलं ज्वलेत्, न हि चन्द्रो वहिं वर्षेत्, न हि वह्निःशीतलो भवेत् , नाऽपि अमृतात् मृत्युः, न च विषभक्षणे जीविताशा । तथापि तत्र गत्वा इन्द्रजालिक हताहतं कृत्वा थान्धवं लात्वा आगमिष्यामि । ततो गतः श्रीभगवत्समीपे, तथैव स्वागतप्रश्नानन्तरं मनोगतः संशयो भग्नः, नवरं तस्येति संशयः। “कर्म अस्ति न वा ?, तत्र 'पुण्यः पुण्येन, पापः पापेन कर्मणा इति कर्मसत्ता॥' पुनः भवनोदरवर्ति सौभाग्यदार्भाग्यविरू|पतादरिद्रतादि वस्तु समस्तमपि अविकलकारणजन्यं कार्यत्वात् । यद् यत् कार्य तत् तदविकलकारणजन्यं यथा| घटपटादिः एवं अनुमानसिद्धापि कर्मसत्ता स्फुटैव ।” एवं वीरमुखात् वेदार्थं श्रुत्वा छिम्नसंशयः प्रबजितः॥ इति द्वितीयो गणधरः॥२॥ एवं तृतीयोऽपि तथैव प्रतिबुद्धो दीक्षां जयाह । नवरं तस्य संशयस्तु-'अयं जीवः शरीरात् भिन्नो न, किंतु शरीरमेव जीवः ॥३॥ एवं चतुर्थों व्यक्तोऽपि तस्य संशय:-'पञ्चभूतानि सन्ति न वा ॥४॥ एवं पश्चमः सुधर्मा गणधरोऽपि तस्य संदेहः-'पुरुषो मृत्वा पुरुष एव जायते, स्त्री मृत्वा स्त्री एव जायते ॥५॥
FoXXXXXXX***ox
॥१५१॥
For Private and Personal Use Only