________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र कल्पलता व्या०५
वर्षद्वयावधि अवस्थान
॥१२२॥
ततश्च सर्वश्रियो भवन्ति इति, ज्ञातः प्रख्यातः । ज्ञातः-सिद्धार्थः तस्य पुत्रो ज्ञातपुत्रः । न च पुत्रमात्रेण काचित् सिद्धिः स्यात्, अतः आह-ज्ञातकुलचन्द्रः, विदेहः विशिष्टदेहः, प्रथमसंहननसंस्थानोपेतत्वात् । अथवा 'दिहींक उपलेपे विगतो देहो लेपो यस्मात् स, विदेहो भोगेष्वपि वैराग्यवत्वात्, विदेहदिन्ना-त्रिशला तस्याः अपत्यं वैदेहदिन्नः। संस्कृते तु विदेहदत्तायाः अपत्यं वैदेहदत्त इति तस्या एव औरसपुत्रत्वाभिधानाय आह"विदेहजचे त्ति"। "भीमो-भीमसेन" इति न्यायात् । विदेहा-त्रिशला तस्यां जाता विदेहजा अर्चा-शरीरं यस्य सः विदेहजार्चः । अथवा विदेहो-अनंगः कन्दर्पःस यात्यः-पीडयितव्यो यस्य सः विदेहयात्यः । विशेषेण दिद्यते-लिप्यते पापैर्जीवोऽस्मिन् इति विदेहो-गृहवासः, तत्रैव सुकुमारो न पुनः व्रते, कालचक्राद्युपसर्गसहने तु वज्रकर्कशत्वात् । त्रिंशद्वर्षाणि गृहवासे कृत्वा-स्थित्वा, तत्र भगवान् अष्टाविंशतिवर्षान्ते मातापित्रोः देवलोकं गतयोः। आवश्यकानुसारेण चतुर्थदेवलोकं । आचाराङ्गानुसारेण तु श्रीपार्श्वनाथस्य श्रावकत्वात् अनशनेन द्वादशदेवलोकं प्रासयोः। प्रतिज्ञा पूर्णा ज्ञात्वा, दीक्षायां उद्यतो जाता, तदा नन्दिवर्धनेन ज्येष्ठभ्रात्रा प्रोक्तम्-“हे बन्धो। क्षते क्षारं मा क्षेप्सीः! पित्रोविरहार्तस्य मम दुःसहः तव विरहः इति स्थीयतां त्वया वर्षद्वयम् ।” ततः पितृस्थानीयज्येष्ठनातृनन्दिवर्धनस्य आग्रहेण भावमुनीभूय, वस्त्रालङ्कारविभूषितोऽपि वैराग्यात् निरवद्यवृत्तिः सन् तस्थौ । ततो गुरुज्येष्ठभ्रातृनन्दिवर्धनः महत्तरकाश्च राज्यप्रधानाः तैः अभ्यनुज्ञातो-व्रतार्थ दत्तानुमतिः "समत्तपइण्णो” समाप्ता=पूर्णीभूता प्रतिज्ञा-"नाहं समणो होई
For Private and Personal Use Only