________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
AT०पा
महा
कल्पसूत्र कल्पलता व्या०४
॥ ९३ ॥
व्याख्या-"ते सुमिणलक्षण त्ति"-अथ सिद्धार्थी राजा स्वप्मलक्षणपाठकान् विपुलेन अशनेन पुष्पैः%3> अग्रथितैः, वस्त्रैः गन्धैर्वासः, माल्यैः ग्रथितैः पुष्पैः, अलङ्कारैः-मुकुटादिभिः कृतसमाहारद्वन्द्वैः सत्कारयति, | निधानानां प्रवरवस्त्रादिना सन्मानयति । तथाविधवचनादिप्रतिपत्त्या सत्कारयित्वा-सन्मानयित्वा, विपुलं-विस्तीर्ण संहरणं जीविकोचितं-आजन्मनिर्वाहयोग्यं वा प्रीतिदानं ददाति, दत्त्वा च प्रतिविसर्जयति । तेऽपि स्वपलक्षणपाठकाः प्राससुवर्णरत्नमणिमाणिक्यरजतादिबहुधनाः स्वगृहे गताः, खभार्याभिरपि नोपलक्षिताः। ततः स्वमलक्षणपाठकविसर्जनानन्तरं सिद्धार्थों राजा सिंहासनात् उत्थाय यत्रैव त्रिशला क्षत्रियाणी तत्रागल्य, त्रिशला क्षत्रियाणी एवं अवादीत-हे देवानुप्रिये ! स्वप्रलक्षणपाठकैः इत्थं मोक्तम्-खमशास्त्रे द्विचत्वारिंशत् स्वप्राः, तत्र त्रिंशन्महाखमाः यावत् मण्डलीकमातरो मण्डलीके गर्भ गते एक स्वप्नं पश्यंति, एतत्पर्यन्तः सर्वोऽपि खमविचार: कथितः । ततः त्वयापि चतुर्दश खमा दृष्टाः, ततः तब पुत्रलाभो भविष्यति चक्रवर्ती वा त्रैलोक्यनायको वा। ततः त्रिशला एनमर्थ श्रुत्वा हृष्टा तुष्टा सिद्धार्थेन राज्ञा अभ्यनुज्ञाता सती सिंहासनात् उत्थाय, अत्वरितादिकया राजहंससद्दशया गत्या यत्रैव खकीयं भवनं तत्रागत्य स्वकीयं भवनं अनुपविष्टा ।
॥ ९३ ॥ अथ यदा भगवान् सिद्धार्थराजभवने अवतीर्णः ततःप्रभृति तिर्यगजुंभकदेवैः किं कृतम् ?, तबाहजप्पभिई च णं समणे भगवं महावीरे तंसि नायकुलंसि साहरिए तप्पभिई च गं बहवे
For Private and Personal Use Only