________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagersuri Gyanmandir
कल्पसूत्र कल्पलता व्या०३
॥६८॥
एवं चतुर्दशचतुर्दश-सहस्रनदीपरिवारसहिता रक्ता १ रक्तवती च २ ऐरावतक्षेत्रसम्बन्धिनी (२८), पुनः अष्टा-IXI समुद्रखमविंशत्यष्टाविंशतिसहस्रनदीपरिवारसहिता रोहिता १ रोहितांशा २ हैमवतक्षेत्रसम्बन्धिनी, (५६), पुनः षट्- वर्णनम्११ सपश्चाशत्षट्पञ्चाशत्सहस्रनदीपरिचारसहिता सुवर्णकूला १ रूप्यकूला २ च ऐरण्यवतक्षेत्रसम्बन्धिनी (११२),
पुनः षट्पञ्चाशत्पटपञ्चाशत्सहस्रनदीपरिवारसहिता हरिकान्ता १ हरिसलिला २ च हरिवर्षक्षेत्रसम्बन्धिनी (११२), पुनः षट्पश्चाशत्षट्पश्चाशत्सहस्रनदीपरिवारसहिता नरकान्ता १ नारीकान्ता २ च रम्यकक्षेत्रसम्बधिनी (११२), पुनः पश्चलक्षद्वात्रिंशत्सहस्र (५३२०००) नदीपरिवारसहिता सीता १ सीतोदा २ च महाविदेहक्षेत्रसम्बन्धिनी, एवं सर्वा अपि मिलिताः चतुर्दशलक्षाः षट्पश्चाशत्सहस्राश्च (१४५६०००) भवन्ति। ।
समुद्रदर्शनात् भगवान् समुद्रवत् गम्भीरो भावी । अत्र शिष्यः माह-मनु-सूत्रमध्ये क्षीरोदधिः प्रोक्तः, तत्र तु नानाविधकल्लोलनदीवेलादीनां कथं सम्भवः, तत्र तेषामभावात् ? उच्यते-यद्यपि क्षीरोदसमुद्रः प्रोक्तः, तथापि लवणसमुद्र एव संभाव्यते, परं क्षीरोदसदृश इव, अन्यथा कल्लोलवेलानां असङ्गतिः स्यात् ॥ इति एकादशसमुद्रखमविचारः ॥ ११ ॥
॥६८॥ अथ द्वादशे वने त्रिशला क्षत्रियाणी देवविमानं पश्यति, तत्स्वरूपं आहतओ पुणो तरुणसूरमंडलसमप्पहं दिप्पमाणसोभं उत्तमकंचणमहामणिसमूहपवरतेयअट्ठ
For Private and Personal Use Only