________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्र कल्पलता
व्या० ३
॥ ५३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
"तओअचउदंतं" ततं विस्तीर्ण ओजो=वलं येषां ते नतौजसः एवंविधाः चत्वारो दन्ता यस्य सः तं । पुनः किंविशिष्टः । "ऊसियगलियत्ति" उच्छ्रितः उदग्रः “गलियत्ति" गलितः निर्जलः स वासौ त्रिपुलजलधरोविस्तीर्णमेघः । पुनः किंविशिष्टः १ । हारनिकरः पुञ्जीकृतहारः क्षीरसागरः =क्षीरसमुद्रः, "ससंककिरणत्ति" चन्द्रकिरणाः, "दगरयत्ति" उदकरजांसि जलशीकराः रजतमहाशैलो वैताढ्यपर्वतः एतेषामित्र पाण्डुरतरं-अतिशुभ्रं पाण्डुरागं वा । पुनः किंविशिष्टम् इभम् ? । समागयमहुरत्ति" समागता मधुकराः = भ्रमराः यत्र तत्, एवंविधं यत् सुगन्धं दानमदः तेन वासितं कपोलमूलं यस्य स तम् । एतावता यस्य कपोलमूले भ्रमराः रणझणायमानाः सन्ति । इयमेव गजस्य शोभा, कचित् "महुअरत्ति" पदं न दृश्यते, तत्र समागतं सततं यद् वहमानं यत् सुगन्धं दानं तेन वासितं कपोलमूलं यस्य स तम् इति व्याख्येयम् । पुनः किंविशिष्टम् इभम् ? । “देवरायत्ति” देवराजस्य इन्द्रस्य कुञ्जरो-हस्ती ऐरावणः तद्वत् वरं प्रधानं प्रमाणं यस्य स तम् । शास्त्रोक्तदेद्दमानमित्यर्थः । पुनः किंविशिष्टम् इभम् ? । “सजलघणविपुलत्ति" सजलो - जलसहितो घनो निषिङः परस्परं मिलितो विपुलो विस्तीर्णो यो जलधरो मेघः तस्य गर्जितं तद्वत् गम्भीरः चारुः प्रधानो घोषो यस्य हस्तिनः स तम् । पुनः किंविशिष्टं इभम् ? । शुभं प्रशस्तं कल्याणकारिणं वा । पुनः ॥ ५३ ॥ किंविशिष्टं इभम् ? । “सहलवणत्ति" सर्वलक्षणानां समस्तहस्तिलक्षणानां कदम्बं समूहो जातमखेति सर्वलक्षणकदम्बितः तम् । पुनः किंविशिष्टं इभम् ? । वरोरुम्, वरश्वासौ उरुः विशालश्च वरोरुः तम् । भद्र
For Private and Personal Use Only
गजस्वम
वर्णनम् १