________________
संस्कृतटीका - भाषाटीकासहिता । (७७) क्षा स एव त्यागस्त्यागशब्दवाच्यः " ईशावास्यमिदंसर्वम्" इत्यादिश्रुतेः द्वीति विद्वदनुभवप्रसिद्धौ नन्वयं त्यागो नकुत्रापि प्रसिद्ध इत्याशंक्याह महतां पूज्यइति तत्रहेतुः सद्यइति यतोयं त्यागः सद्योनुसंधानकालएव मोक्षमयः परमानंदस्वरूपावस्थानरूपः अतएवात्मतत्त्वविदामिष्टत्वादतिप्रसिद्धायं त्यागइत्यर्थः । तस्मादयमेव सुमुक्षुणा कर्तव्यो नान्यः केवलस्वकर्माद्यकरणरूप इतिभावः एवमग्रेप्यूह्यम् ॥ १०६ ॥
भा. टी. चैतन्यस्वरूप तत्त्वको अवलोकन करके जो प्रपञ्चका अर्थात् घटपटादि नामसे व्यवहत पदार्थोंका त्याग करना है सो त्याग कहा वे है इसका महात्मा लोग बडा आदर करें हैं इस कारण यह शीघ्र ही मोक्षको देय है ॥ १०६ ॥ यस्माद्वाचोनिवर्तते अप्राप्य मनसा सह ॥ यन्मौनयोगिभिर्गम्यं तद्भवेत्सर्वदा बुधः ॥ १०७ ॥
सं. टी. अथमौनं लक्षयति यस्मादिति शब्दप्रवृत्तिनिमित्तजातिक्रियादेरभावात् मनोवाचामगोचरं यन्मौनं वक्तमशक्यं यद्ब्रह्म तथापि योगिभिर्गम्यं ज्ञानयोगिभिः प्रत्यगभिन्नत्वेन प्राप्यं तत्प्रसिद्धमेव ब्रह्मरूपं मौनं सर्वदा बुधो विवेकी भवेत्तदहमस्मीत्यनुसंदध्यादित्यर्थः १०७॥