________________
संस्कृतटीका-भाषाटीकासंहिता। . (७५) सं. टी. इदानीमेतेषां प्रत्येक निर्देशक्रमेण स्वाभिमतानि लक्षणान्याह सर्वमित्याकविंशत्या तत्र प्रथमोदिष्टं यमं तावदर्शयति सर्वमिति सर्वमाकाशादिदेहांत जगद्ब्रह्म बाधसामानाधिकरण्यद्वारा स्थाणुपुरुषा. दिवादित्यर्थः इति विज्ञानान्निश्चयादेतोरिद्रियाणां श्रोत्रादीनामेकादशकरणानां ग्रामः समूहस्तस्य संयमः सम्यक् शब्दादिविषयाणां विनाशित्वसातिशयत्वदुःखदत्वादिदोषदर्शनात् यमो विषयेभ्यो निवारणम् अयं यम इतिसंप्रोक्तः नतु केवलमहिंसादिरित्यर्थः ततश्च किमतआह अभ्यसनीय इति अयं सुहुर्मुहुरभ्यसनीय इति ॥ १०४॥
भा. टी. सम्पूर्ण जगत ब्रह्म है इस प्रकार निश्चय करके सम्पूर्ण इन्द्रियोंका निग्रह करना है सो 'यम' कहावै है इसका अभ्यास पुरुषको वारम्बार करनायोग्य है ॥ १०४ ॥
सजातीयप्रवाहश्च विजातीयतिरस्कृतिः॥ नियमोहिपरानंदो नियमाक्रि-. यतेबुधैः ॥ १०५॥ सं. टी. एवं यमलक्षयित्वा नियमलायति सजातीयेति सजातीयं प्रत्यगभिन्नं परब्रह्म तदेकाकारोवृत्तिप्रवाहः सजातीयप्रवाहः यद्वा सजातीयानामसंगोहमविक्रियोहमित्यादिप्रत्यगभिन्नब्रह्मप्रत्ययानांप्रवाहः चपुनः