________________
. संस्कृतीका-भाषाटीकासहिता। (७१) उच्यतेऽर्बलाच्चैतत्तदानर्थद्वयागमः॥ वेदांतमतहानं च यतोज्ञानमिति श्रुतिः॥.९९॥ सं. टी. उक्तवैपरीत्येबाधकमाह उच्यतइति एत प्रारब्धमज्ञैः श्रुतितात्पर्यानभिज्ञैबलादविवेकसामर्थ्याचेदुच्यते यथार्थतया प्रतिपाद्यते चकारादद्वयात्यानं नपश्यति तदाऽनर्थद्वयागमो दोषद्वयप्राप्तिः तत्र प्रारब्धरूपस्य द्वैतस्यांगीकारे अनिर्मोक्षप्रसंग एको. दोषः मोशाभावे ज्ञानसंप्रदायोच्छेदरूपोद्वितीयो दोषइ तिनकेवलं दोषद्वयस्यैव प्राप्तिरपितु वेदांतमतहानंच वेदांतमतस्याद्वैतस्य हानं त्यागो भविष्यति प्रारब्ध ग्रहणरूपस्य द्वैतस्य याथार्थ्यादित्यर्थः तर्हि किंपतिपत्तव्यमित्यत आह यतइति यतो यस्याः सकाशात् ज्ञानभवति तादृशी सा श्रुतिोिति शेषः सा श्रुतिस्तु “तमेवधीरोविज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः॥ नानुध्याया द्वाञ्छब्दान् वाचविग्लापनंहितत्” इति एतदभिप्रायः क इति चल्लिख्यते धीरो विवेकी ब्राह्मणो ब्रह्मभवितु मिच्छुस्तमेव वेदांतप्रसिद्धमात्मानं विज्ञायाऽऽदावुपदेशतः शास्त्रतश्च ज्ञात्वाऽनंतरप्रज्ञां शास्त्राचार्योपदिष्टविषयामपरोक्षानुभवपर्यंतां जिज्ञासापरिसमाप्तिकरी कुर्वीत बहून् कर्मोपासनाप्रतिपादकान शब्दान वाक्यसंदभाः