________________
Inde
संरकृतटीका-भाषाटीकासहिता। (१५) सूक्ष्मदेहान्यां विपरीतधर्म कोस्मि अस्थूलमनण्वस्वम्' इत्यादि श्रुतेः कश्चिदिति जात्यादिरहितत्वान्मनो- . वाचामगोचरत्वं दर्शितं अयमीहशः सविचार इति व्याख्यातार्थश्चतुर्थः पादः श्लोकचतुष्टयेपि बोद्धव्यः॥१३॥ __ भा. टी. मैं भूतगण समष्टिरूप देह नहीं हूँ मैं समष्टि रूप इन्द्रियों का समूह नहीं हूँ इससे विलक्षण कोई है सो विचार कहावे है ॥ १३॥
अज्ञानात्प्रभवं सर्व ज्ञानेन प्रविलीयते॥सङ्कल्पो विविधः कर्ता विचारः
सोऽयमीदृशः ॥ १४॥ - सं. टी. तदेव कोहमित्येतनिश्चित्यैदानी कथमिदं जातमित्यस्य निश्चयः क्रियते तत्र पृथिव्यादिभूतानि कार्यत्वात्स्वस्वपरमाणुभ्यो जायत इति तार्किकादयो मन्यते कर्मणो जायते इतिमीमांसकाः प्रधानादेवेति सांख्याः तदेतन्निराकुर्वन्नाह अज्ञानेति सर्वं जगदिदं नामरूपात्मकमज्ञानप्रभवमज्ञानात्पूर्वोक्तस्वस्वरूपास्फुरणात्प्रभवति तथाविधं अतएवैतद्विरोधिना ज्ञानेन स्वस्वरूपस्फुरणेन तम इव प्रकाशेन प्रविलीयते निश्शे. पलीनं भवतीत्यर्थः। को वै कतैत्यस्य निर्णयमाह संक.. इतिल्प विविधो नानाप्रकारः संकल्पः इदं करिष्यामी ,