________________
संस्कृतटीका-भाषाटीकासहित। (१६) ज्ञानं नोत्पद्यते तत्र दृष्टांतमाह यथेति यथा वचित्कस्मिंश्चिदेशे सूर्यादिप्रकाशेन विना पदार्थभानं घटादिवस्तुप्रकाशो नभवति हीतिसर्वजनप्रसिद्धं अतो नियमः क्रियत इति भावः ॥११॥ ___ भा. टी. विना ज्ञानके और साधनों करके नित्य अनित्य वस्तुका विचार नहीं होय है जैसे सूर्यदीपक इत्यादिकोंके प्रकाशके विना कहीं भी कोई घटपटादिपदार्थोंका भान नहीं होयहै ॥ ११॥
(ज्ञानपूर्वक विचारस्वरूप) कोऽहं कथमिदं जातं को वैकर्ताऽस्य विद्यते॥ उपादानं किमस्तीह विचा
सोऽयमीदृशः॥ १२॥ सं. टी. तहि स विचारः कीदृश इत्यत आह कोहमि ति अहं कती सुखीत्यादिव्यवह्रियमाणः कः किंस्वरूपः तथा इदं जगत् स्थावरजंगमात्मकं कथं कस्माज्जातं किमधिष्ठानमित्यर्थः तथाऽस्यप्रत्यक्षादिप्रमाणसिद्धस्य जगतः कत्तॊत्पादकः को विद्यते वै इति विकल्पं योतयति किं जीवदृष्टं कर्तृ किंवेश्वरः किं वान्यदेव किंचिदिति विकल्पः किं चेह जगति उपादानं घटस्य
मृद्धत् किमस्ति अयमात्माजगत्कारणविषयः ईदृश ' एवंस्वरूपो विचारः स एव ज्ञानसाधनमित्यर्थः ॥१२॥ .