________________
(८)
अपरोक्षानुभूतिः। शेषो ज्ञेयः सक इत्यतआह एवमिति य एवं प्रकारेण सम्यक् संशयादिशून्यो निश्चयः एवं कथमित्यतआह नित्यमिति होति विद्वदनुभवप्रसिद्धमात्मस्वरूपं नित्यमविनाशिअबाध्यं सत्यमित्यर्थः"अविनाशी वाअरेयमात्मा" इति श्रुतेः दृश्यमानात्मस्वरूपं तद्विपरीतगं तदात्मस्वरूपं तस्माद्विपरीतत्वेन गच्छति प्राप्नोति व्यवहारभूमिमिति तथाविधं विनाशि बाध्यमित्यर्थः अत्रेदमनुमानमपि सूचितं भवति आत्मस्वरूपं नित्यं द्रष्टत्वात यन्न नित्यं तन्न द्रष्टु यथा घटादीति केवलव्यतिरेकीहेतुः तथाऽनात्मस्वरूपमनित्यं दृश्यत्वात् यन्नानित्यं तत्रदृश्य यथात्मस्वरूपमित्ययमपि केवलव्यतिरेकी हेतुः॥६॥
भा. टी. आत्मा नित्यहै और जो कुछ संसारकी वस्तु देखनेमें आवै है सो अनित्यहै इस प्रकारका अच्छी तरह जो पुरुषको निश्चय होनाहै सो वस्तुका विवेक कहावै है ॥ ५॥
(शमदमका स्वरूप ) सदैव वासनात्यागः शमोयमिति शब्दितः ॥ निग्रहो बाह्यवृत्तीनां दम इत्यभिधीयते ॥६॥ सं.टी. तदेवं वैराग्यकारणं विवेकं व्याख्याय वैराग्यकार्य शमादिषट्क लक्षयति सदैवेत्यादित्रिभिः श्लोकः सदेव सर्वस्मिन्नपि काले वासनात्यागः पूर्वसंस्कारोपेक्षायं: