________________
Scanned by CamScanner
N
शीलवती.
कथानकम्
॥३॥
क्षुरिका इव ॥४३॥ शीलवत्यपि निर्माया, किञ्चित्कार्यमनिन्दितम् । घट मुक्त्वा पुनः प्राप्ता, खतल्पमविकल्पितम् ॥४४॥ पयस्यलाबुवञ्चिन्ता-शतपातुकधीरमा । सोत्सुकं रजनीशेषे, श्रेष्ठी जायामभाषत ॥४५॥ वधूः शीलगुणैर्वृद्ध ! कीदृशी प्रतिभाति ते ? । | तयोक्तं कुलमर्यादा-नुरूपं चेष्टतेऽखिलम् ॥४६॥ नान्तर्मुखी शेमुषी ते- ज्ञे! मन्ये यन्मया निशि। वीक्षितकाकिनी क्वापि, रन्तुमद्य गता वधूः॥४७॥ तत्समस्तप्रमाणेभ्यो, बलीयोऽध्यक्षमेव हि । जानीहि सकलंकां तत्, वधूं चन्द्रतनूमिव ॥४८॥ इतश्चाजितसेनोऽपि, पितुः पादनिनसया । समेतस्तत्र तेनाथ, सखेदमिव भाषितः ॥४९॥ किमिह प्रोच्यते वत्स !, विधात्रास्मद् गृहांगणे । रोपिता न च सेहे च, पारिजातकवल्लरी ॥ ५० ॥ यत्तादृग्वंशजातापि, गुणसंसर्गवत्यपि । कौटिल्यं भजते चापलतिकेव वधूरियम् ॥५१॥ सलज्जमजितोऽप्याह, जिनधर्मरताप्यसौ। चेष्टते दुष्टचारत्वं, हतास्तदखिला गुणाः॥५२॥ जाने वत्स!वधूरासीत्, कल्पवल्लीव नः कुले । साम्प्रतं दृष्ट