________________
Scanned by CamScanner
स्वामिनी वीक्ष्य, पुस्तकार्चनसादराम्॥१७॥आयें! किमयपति, सा पप्रच्छ प्रवर्तिनीम्। तयोचेऽय श्रुततिथि-विख्याता श्वेतपंचमी ॥ १८॥ य इह श्वेतपंचम्या-मुपवास| परायणः । पुस्तकाभ्यर्चनपूर्व, कुर्यात् ज्ञानप्रभावनाम् ॥१९॥ स प्रेत्य सुखसौभाग्य| भाग्यबुद्धयादि वैभवम् । प्राप्य क्रमेण निर्वाणं, लभते शुद्धशीलयुक् ॥२८॥ युग्मम् ॥
श्रुत्वेति दुर्गिला प्राह, धन्यासी स्वामिनी मम। निंद्या तुमाशी यत्र, स्वहितं कर्तुमक्षश ॥२१॥ प्रवर्तिन्याह चेदान-तपसी ते न गोचरे । तत् स्वाधीनं भावसारं, शीलं त्वमा पालय ॥ २२ ॥ विधेहि परपुंत्यागं, यावज्जीवं विवेकिनि !। तथाष्टमीचतुर्दश्योः, स्वभर्तुरपि वर्जनम् ॥२३॥ गृहीत्वाभिग्रहं हृष्टा, सापि पत्युरभाषत । कर्मलाघवतः सोऽपि, तमाद्रियत भावतः ॥ २४ ॥ क्रमेण प्रापतुस्तौ च, सम्यक्त्वं भावशुद्धितः । दुर्गिलापि क्रमाज्ज्ञान-पंचम्या विदधे तपः ॥२५॥ कालधर्म गतौ जातो, सौधर्मे त्रिदशावुभौ । भवानजितसेनोऽपि, दुर्गजीवस्ततश्चयुतः ॥ २६ ॥ जातश्च दुर्गिला| जीवः, सैषा शीलवती सती । ज्ञानाराधनपुण्येन, विशिष्टबुद्धिवैभवाः ॥२७॥ जाति