________________
Scanned by CamScanner
मात्रे व्यतिक्रांते, राजाऽऽख्यन्नममंत्रिणः । सिद्धार्थः किमसिद्धार्थो, नाशोकस्तावदाIt गतः? ॥७॥ भूपेन पुनरादिष्टो, वितीर्य द्रविणं ततः। रतिकेलिचिकीस्तस्यां, रतिकेलि
स्थागमत् ॥७५॥ तयैकलक्षमादाय, सोऽपि तत्रैव पातितः । बुद्धेर्हि सुप्रयुक्तायाः, किमसाध्यमपि कचित् ? ॥७६॥ एवं लक्षमुपादाय, प्रत्येकमुभयोरपि । कामांकुरललितांगा-वपि साऽपातयत् क्रमात् ॥७७॥ चातुर्गतिकसंसार-दुःखानीव महासती।पाताले पातयामास, चतुष्पुरुषदंभतः ॥७८॥ अथ शत्रु विनिर्जित्य, राजा सिंहरयाभिषम्। प्रविवेश पुरं पोरैः, कृतमंगलमालिकम् ॥७९॥ तेऽथ शीलवतीं प्रोचु-दीनास्याः पीडिताः क्षुधा । अनात्मज्ञा नरा यत्स्यु-रस्मद्वदुःखभाजनम् ॥ ८॥ न दृष्टं तव.माहात्म्यं, अस्मानादेशकारिणः । निष्काशयैकदाऽमुष्मा-नरकादिव कूपतः ॥१॥ तयोचे चेयथादिष्टं, वचनं मे करिष्यथ । तदा मोक्ष्यामि तैरूचे, यत्कर्तव्यमयादिश ॥२॥ एवं भव| विति- यदा, ब्रवीम्यहमशंकितम् । भवनिरपि वक्तव्या, भवत्वेवं तदति वाक् ॥३॥ | शिक्षायित्वेति तान्नाथ-मूचेऽथ मतिमत्तमा । निमंत्रयैकदा भूपं, स्वगेहे सपरिच्छदम् ||