________________
Scanned by CamScanner
शीलवती.
कया
॥
४
॥
दृढीकृत्य पर्यधात् । मेने च दुर्विनीतां तां, श्रेष्ठी प्राग्धृतकश्मलः ॥६३॥ पुरः फलितमा- लोक्य, मुद्गक्षेत्रं जगावसौ। अहो! शस्यश्रियः क्षेत्र-स्वामिनः करगोचराः॥४॥ स्नुषाभाणीदेवमेत-न जग्धं यदिदं पुरा । श्रेष्ठी दध्यावसम्बद्ध-अलापिन्यप्यसाविति ॥६५॥ एतस्यां वामचारित्वा-नुरूपं कृतवानिति । मुदितो द्रुतसम्पातं, श्रेष्ठी रथमचालयत् ॥६६॥ समृद्धथा धनदद्रंग-सरंगं जनसंकुलम् । पुरः पुरमथोद्वीक्ष्य, शश्लाघ मूर्द्धधूननात् ॥६७॥ तयापि व्यापिबुद्धयोचे, साध्विदं यदि नोद्वसम् । श्रेष्ठिनाऽचिन्ति सोलंठगीर्मामपि हसत्यसौ ॥६८॥ अग्रेऽथ भटमालोक्य, प्रहारभरजर्जरम् । श्रेष्ठी श्लाधितवानस्य, सौंडीर्य साधु साध्विति ॥६९॥ विलोक्य तमथो प्राह, मधाविव पिकी वधूः । साध्वस्ति कुट्टितस्तावत्, पामरः श्वेव कातरः॥७०॥ प्रतिकूला वधूनूनं, मदुक्ते दुष्टचारिणी। प्रत्यक्षेऽपि विरुद्धार्थ-मुन्मत्तेवाभिधत्त या ॥७१॥ भावयन्निति तत्त्याग-कर्म चाप्यनुमोदयन् । न्यग्रोधपादपाधस्तात् , क्वापि श्रेष्टी स्थितः पथि ॥७२॥ वधूरपि वट
॥४॥