________________
Scanned by CamScanner
कर्णिका
धर्मोपदेश
॥ अथ बुद्धरुपरि अजायाः कथा प्रारभ्यते ॥ च क्वचिदरण्ये महदजायूथं चरित्वा सर्वदा संध्यासमये ग्राममध्ये समायाति. इतश्चैकदैकः सिंहस्तदः। ७२ ॥ " जायथं हंतु समागच्छन् यूथपेन दृष्टः, तदा तेन तत्सकलमपि यूथं द्रुतमेव | खजा अजा द्रुतं चलितुमशक्ता वनमध्ये पश्चात्स्थिता. तां हंतुं यावत्स सिंहः समागच्छति, तावत्तमायांतं वीक्ष्य साजापि तस्य सन्मुखमचलत्. खंजती च तां सन्मुखमागच्छंती वीक्ष्य चकितः स सिंहो निजमनसि | दध्यौं, नूनमेषा कापि राक्षसी अजारूपं विधाय मामेव हेतुं समागच्छंती विलोक्यते. यदि सा सत्यैवाजा भवेत्तदा मदीयदर्शनत एव नश्येत्, परमियं तु मम सन्मुखमेव समायाति! इति विचिंत्य सिंहो भयेन दूरमेव स्थित्वा तां पप्रच्छ, कासि त्वं? सा प्राह-सप्त सिंहा मया जग्धा । नव व्याघ्रास्त्रयो गजाः ॥ एकं सिंहं वने नष्टं । हंतुमत्रागतास्म्यहं ॥ १॥ एतद्वचनं श्रुत्वा स सिंहस्तत्क्षणमेव ततो नष्टः. एवं स्वबुद्धिप्रपंचेन सा छागी कुशलेन निजग्राममध्ये समायाता. ॥ इति अजाकथा समाप्ता ॥
*AMPADMEROEIODERSHORT
७२ ॥