________________
Scanned by CamScanner
धर्मोपदेश
॥५६॥
| साधारणद्रव्यं च तयोः क्रमाद्रक्षार्थ समर्पितं. तावपि सम्यक्प्रकारेण तद्व्यरक्षां कुरुतः. अथान्येयुरायेन || जिनदासश्रेष्ठिना स्वनिमित्तं किंचिच्छास्त्रं लेखकपाबें लिखापितं; स्वपार्श्वे चापरद्रव्याभावादेतदपि ज्ञानस्थानमेवेति विचिंत्य तद्ज्ञानद्रव्यात्तेन द्वादशद्रम्मास्तस्य लेखकस्यार्पिताः. ततो द्वितीयेन जिनदत्तश्रेष्ठि-13 नाप्येकदा चिंतितं साधारणद्रव्यं खलु सप्तक्षेत्रीयोग्यत्वेन श्राद्धानामपि योग्य, अथाहमपि च श्रावक इति विमृश्य निजपाश्वेऽन्यद्रव्याभावात्स्वगृहगाढप्रयोजने तस्य साधारणद्रव्यस्य द्वादशद्रम्मा व्ययिताः. तत| स्तौ द्वावपि मृत्वा तेन दुःकर्मणा प्रथमं नरकं गतो. यदुक्तं वेदांतिनापि-प्रभास्वे न मतिं कुर्यात् । प्राणैः | | कंठगतैरपि ॥ अग्निदग्धाः प्ररोहति । प्रभादग्धा न रोहति ॥ १ ॥ प्रभास्वं ब्रह्महत्या च । दरिद्रस्य च | यद्धनं ॥ गुरुपत्नी देवद्रव्यं । स्वर्गस्थमपि पातयेत् ॥ २ ॥ प्रभास्वं साधारणद्रव्यमित्यर्थः. नरकौद्धृतौ च | | तौ सरीसृपो जातौ (२), ततो द्वितीयपृथिव्यां नारको जाती (३), ततो गृद्धौ (४), ततस्तृतीयपृथिव्यां । नारको (५). एवमेकट्यादिभवांतरितौ सप्तसु पृथ्वीषु एकद्वित्रिचतुःपंचेंद्रियतिर्यक्षु तो द्वादशसहस्रभवान् : भ्रांतो. प्रायः सर्वभवेषु च सर्वांगच्छेदादिकदर्थनया भूयस्तरं दुःखमनुस्य बहुक्षीणतदुःकर्माणौ युवामत्र
2040DMINIEOBHARDHA
॥५६॥