SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ धर्मोपदेश ॥ ४७ ॥ ENE-HEEJ ततोऽसौ निजहृदि चिंतयति, अथाहं सम्यक् परीक्ष्यैव धर्म कुर्वे. इति विचार्य स सत्यधर्मपरीक्षार्थं परि| व्राजकादिधर्मगुरूणां धर्मपरीक्षार्थी बभ्राम अथैकदा क्वापि मठे गत्वा तत्रस्थमेकं परिव्राजकं दृष्ट्वा विनयेन तमभिवंद्य स तद्धर्मरहस्यं पप्रच्छ. तेनोक्तं भो द्विज ! मद्गुरुणो धर्मरहस्य त्रिपदी मह्यं प्रोक्तास्ति, यथा“मिठ्ठे भुंजेयवं,” “सुहं च सोयव्वं,” “लोअप्पिओ अप्पा कायवो ” इति परमेतस्यास्त्रिपद्या अर्थमकथायित्वैव गुरुः स्वर्गे जगाम ततो मया स्वबुध्ध्यैव तस्यास्त्रिपद्या अर्थ विचार्य धर्माचरणं करोमि, तद्यथा“अहं सर्वदा घृतादियुतं पुष्टिकारकं मिष्टान्नमेव भुंजे.” “सुकोमलशय्यायां च सर्वदा सुखेन शये.” "लोकानां मंत्रतंत्रौषधादि दर्शयित्वा च सर्वदा लोकप्रियो भवामि " इति तत् श्रुत्वा स सोमवसुविप्र| श्चिंतयामास, एष खलु धर्मविधिर्न श्रेयस्करः प्रतिभाति यतो मंत्रतंत्रौषधादिभिर्जीवघातो भवति सर्वदा मिष्टान्नभोजनैःश्वेंद्रियाण्युन्मत्तभावं भजंते. सुकोमलशय्याशयनेनापि कामविकारः प्रादुर्भवति इति विचार्य स तस्यास्त्रिपद्याः सत्यार्थप्राप्तयेऽन्यत्र जगाम एवं भ्रमन्नसौ कस्मिंश्चिन्नगरोद्याने एक सुगतभिक्षुकं ददर्श, | तं च नमस्कृत्य स तस्यास्त्रिपद्या अर्थ पप्रच्छ तदा तेन भिक्षुकेणोक्तं, भो महाभाग ! " एकांतरभोजनेन D कर्णिका. ॥ ४७ ॥ Scanned by CamScanner
SR No.034063
Book TitleDharmopadesh Karnika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1939
Total Pages81
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy