________________
DE-33
न्मादात्स उत्तरमपि न ददौ तदा तेन श्रेष्ठिना चिंतितं किमनेन कुतोऽपि धनं प्राप्तं ? अथवा किं केनाप्ययं रोषितोऽस्ति ? यदद्यायमुत्तरमपि न यच्छति। ततः श्रेष्ठिना चाटूक्तिभिर्मधुरालापैः पृष्टोऽसौ स तद्वधूकृत्यमाख्यातवान्, स्वयमानीतस्वर्णेष्टिकाद्वयं च तस्मै अदर्शयत् अथ लोभाकांतः स श्रेष्ठयपि शीघ्रं | सूर्यास्तकालं वांछन् निशामुखे च करवत्तत्र काष्टकोटरे प्रविश्य मौनपरश्च स्थितः ततो गतश्च स वधूभिः सह स्वर्णद्वीपे अथ लोभाभिभूतेन तेन स्वर्णेष्टिकाभिस्तत्काष्टं भृशं भृतं. अथ कृतकृत्यास्ता वध्वस्तत्काष्टं समुत्पाटय तहमा गगनाध्वना चलिताः परं तद्दिने तत्काष्टातिभारेण खिन्नास्ताः परस्परं जल्पंति, अथास्माकं नगरमासन्नमस्ति, अत इदमतीवभारकरं काष्टं तु समुद्रे एवं मुच्यते, कल्ये च वयमपरं काष्टं गृहीष्यामः. तासामित्यालापं श्रुत्वा तत्कोटरस्थेन तेन श्रृंगदत्तेन श्रेष्ठिना चिंतितं, नूनं संप्रति मुधैव मे मरणं समागतं, अतोऽहं कथयाम्येताः सांप्रतं यावत्ता इदं काष्टं समुद्रे न क्षिपंति इति विमृश्य कोटरस्थेनैव तेन महता शब्देनोक्तं, भो वध्वः ! भवतीभिरिदं काष्टं सागरमध्ये न क्षेप्यं, यतोऽहं युष्माकं श्वशुsa कोटरमध्ये स्थितोऽस्मि तत् श्रुत्वा विस्मितास्ता अतीवरुष्टास्तत्क्षणमेव तत्काष्टं सागरमध्ये चिक्षिपुः.
-:
30-34
कर्णिका
॥ ३३ ॥
Scanned by CamScanner