________________
॥ १३ ॥
306-28
804013
4030094
| सिंहासने समुपविष्टे तौ द्विजरूपधरौ देवौ तद्रूपविलोकनार्थं तत्र समेतौ तदा तदूपविलोकनेन तौ विलक्षौ श्यामवदनौ च जातौ तदा चक्रिणा पृष्टं, भो द्विजोत्तमौ ! मदीयं रूपं विलोक्याधुना युवां कथं श्यामास्यो जातौ ? तावूचतुर्भो राजन् ! अधुना रोगाक्रांतशरीरस्य तव रूपभ्रंशो विलोक्यते. चक्रवर्तिरूचे, युवां तत्कथं जानीथः ? तावूचतुर्देवत्वेन ततस्तौ देवौ प्रत्यक्षीभूय तस्य प्रशंसां च विधाय स्वस्थानं जग्मतुः अथ वैराग्यपरेण चक्रिणापि विमृष्टं, नूनं रूपयौवनादि क्षणविनश्वरमेव ततः किमनेन पापहेतुराज्येन ! इति विचार्य | तेन चक्रिणा श्रीविनयंधराख्यगुरोः समीपे दीक्षा गृहीता. गोतार्थः सन्नेकाकित्वेन प्रतिमादितपः परः स विजहार. कृतषष्ठाष्टमादितपा गोचरचर्यया परिभ्रमन् लुक्षाहारपरोऽसावेकदा तक्रं लब्धवान्. अथैवंविधकदर्याहारेण तस्य शरीरे सप्त व्याधयः समुत्पन्नाः, यथा - शुष्ककच्छ्रज्वर श्वासाः | कासश्चान्नारुचिस्तथा ॥ अक्षिदुःखं दंतदुःखं । सप्तैतेऽत्यंतदारुणाः ॥ १ ॥ एवं सप्तविधरोगदुःखं स सप्तवर्षशतानि यावदसहत. | वैराग्ययुक्तः स राजर्षिर्निजव्याधिप्रतीकारं न करोति. अथान्यदा पुनरपींद्रेण सभासमक्षं तस्य वैराग्यप्रशंसा कृता. तदा द्वौ देवौ तत्परीक्षार्थी वैद्यरूपं विधाय तस्य राजर्षेः समीपं समुपागतो. तं नत्वा च ताभ्यां
400-3000-3000-3
कर्णिका
॥ १३ ॥
Scanned by CamScanner