________________
૨૯૨
યોગસારાદિ સૂક્ત - રત્ન- મંજૂષા
२३ तावद्विवादी जनरञ्जकश्च,
यावन्न चैवात्मरसे सुखज्ञः । चिन्तामणिं प्राप्य वरं हि लोके, जने जने कः कथयन् प्रयाति ? ॥१०॥ रुष्टैर्जनैः किं यदि चित्तशान्तिः ?, तुष्टैर्जनैः किं यदि चित्ततापः ?। प्रीणाति नो नैव दुनोति चान्यान्,
स्वस्थः सदौदासपरो हि योगी ॥१०१॥ २७ एकः पापात् पतति नरके, याति पुण्यात् स्वरेकः,
पुण्यापुण्यप्रचयविगमात् मोक्षमेकः प्रयाति । सङ्गान्नूनं न भवति सुखम्, न द्वितीयेन कार्यम्, तस्मादेको विचरति सदाऽऽनन्दसौख्येन पूर्णः ॥१०२॥ त्रैलोक्यमेतद् बहुभिर्जितं यैः, मनोजये तेऽपि यतो न शक्ताः । मनोजयस्यात्र पुरो हि तस्मात्, तृणं त्रिलोकीविजयं वदन्ति ॥१०३॥ मनोलयानास्ति परो हि योगो, ज्ञानं तु तत्त्वार्थविचारणाच्च । समाधिसौख्यान्न परं च सौख्यम्, संसारसारं त्रयमेतदेव ॥१०४॥ विदन्ति तत्त्वं न यथास्थितं वै, सङ्कल्पचिन्ताविषयाकुला ये। संसारदुःखैश्च कर्थितानां, स्वप्नेऽपि तेषां न समाधिसौख्यम् ॥१०५॥ श्लोको वरं परमतत्त्वपथप्रकाशी, न ग्रन्थकोटिपठनं जनरञ्जनाय । सञ्जीवनीति वरमौषधमेकमेव, व्यर्थः श्रमप्रजननो न तु मूलभारः ॥१०६॥
२८