________________
રત્નાકરપચ્ચીશી
૨૬૫
३
किं बाललीलाकलितो न बालः, पित्रोः पुरो जल्पति निर्विकल्पः ? तथा यथाऽर्थं कथयामि नाथ !, निजाशयं सानुशयस्तवाग्रे ॥५०॥ दत्तं न दानं परिशीलितं च, न शालि शीलं न तपोऽभितप्तम् । शुभो न भावोऽप्यभवद् भवेऽस्मिन्, विभो ! मया भ्रान्तमहो ! मुधैव ॥५१॥ दग्धोऽग्निना क्रोधमयेन दष्टो, दुष्टेन लोभाख्यमहोरगेण । ग्रस्तोऽभिमानाजगरेण मायाजालेन बद्धोऽस्मि कथं भजे त्वाम् ? ॥५२॥ कृतं मयाऽमुत्र हितं न चेहलोकेऽपि लोकेश ! सुखं न मेऽभूत् । अस्मादृशां केवलमेव जन्म, जिनेश ! जज्ञे भवपूरणाय ॥५३॥ मन्ये मनो यन्न मनोज्ञवृत्तं, त्वदास्यपीयूषमयूखलाभात् । द्रुतं महाऽऽनन्दरसं कठोरम्, अस्मादृशां देव तदश्मतोऽपि ॥५४॥ त्वत्तः सुदुष्प्राप्यमिदं मयाऽऽप्तं, रत्नत्रयं भूरिभवभ्रमेण । प्रमादनिद्रावशतो गतं तत्, कस्याग्रतो नायक ! पूत्करोमि ? ॥५५॥ वैराग्यरङ्गो परवञ्चनाय, धर्मोपदेशो जनरञ्जनाय । वादाय विद्याऽध्ययनं च मेऽभूत्, कियद् ब्रुवे हास्यकरं स्वमीश ! ? ॥५६॥ परापवादेन मुखं सदोषम्, नेत्रं परस्त्रीजनवीक्षणेन । चेतः परापायविचिन्तनेन, कृतं भविष्यामि कथं विभोऽहम् ? ॥५७॥