________________
२४०
દ્વાર્ગિશ દ્વાબિંશિકા સૂક્ત- રત્ન- મંજૂષા
દ્વાન્નિશ ત્રિશિકા સૂક્ત - રત્ન - મંજૂષા
यशोविजयकृतं द्वात्रिंशद्वात्रिंशिकाप्रकरणं १/१ ऐन्द्रशर्मप्रदं दानम्, अनुकम्पासमन्वितम् ।
भक्त्या सुपात्रदानं तु, मोक्षदं देशितं जिनैः ॥१॥ १/२० भक्तिस्तु भवनिस्तार-वाञ्छा स्वस्य सुपात्रतः ।
तया दत्तं सुपात्राय, बहुकर्मक्षयक्षमम् ॥२॥ १/७ क्षेत्रादि व्यवहारेण, दृश्यते फलसाधनम् ।
निश्चयेन पुनर्भावः, केवलः फलभेदकृत् ॥३॥ १/८ कालेऽल्पमपि लाभाय, नाकाले कर्म बह्वपि ।
वृष्टौ वृद्धिः कणस्यापि, कणकोटितथाऽन्यथा ॥४॥ १०/११ प्रणिधानं क्रियानिष्ठम्, अधोवृत्तिकृपाऽनुगम् ।
परोपकारसारं च, चित्तं पापविवर्जितम् ॥५॥ १०/१२ प्रवृत्तिः प्रकृतस्थाने, यत्नातिशयसम्भवा ।
अन्याभिलाषरहिता, चेत:परिणति स्थिरा ॥६॥ १०/१३ बाह्यान्ताधिमिथ्यात्व-जयव्यङ्ग्याशयात्मकः ।
कण्टकज्वरमोहानां, जयैर्विघ्नजयः समः ॥७॥ १०/१४ सिद्धिस्तात्त्विकधर्माप्तिः, साक्षादनुभवात्मिका ।
कृपोपकारविनयान्विता हीनादिषु क्रमात् ॥८॥ १०/१५ अन्यस्य योजनं धर्मे, विनियोगस्तदुत्तरम् ।
कार्यमन्वयसम्पत्त्या, तदवन्ध्यफलं मतम् ॥९॥ १०/१६ एतैराशययोगैस्तु, विना धर्माय न क्रिया ।
प्रत्युत प्रत्यपायाय, लोभक्रोधक्रिया यथा ॥१०॥