________________
જ્ઞાનસાર સૂક્ત- રત્ન - મંજૂષા
૧૯૭
३१/१ ज्ञानमेव बुधाः प्राहुः, कर्मणां तापनात् तपः ।
तदाभ्यन्तरमेवेष्टं, बाह्यं तदुपबृंहकम् ॥१९॥ ३१/२ आनुश्रोतसिकी वृत्तिः, बालानां सुखशीलता ।
प्रातिश्रोतसिकी वृत्तिः, ज्ञानिनां परमं तपः ॥१०॥ ३१/३ धनार्थिनां यथा नास्ति, शीततापादि दुःसहम् ।
तथा भवविरक्तानां, तत्त्वज्ञानार्थिनामपि ॥१०१॥ ३१/४ सदुपायप्रवृत्तानां, उपेयमधुरत्वतः ।
ज्ञानिनां नित्यमानन्द-वृद्धिरेव तपस्विनाम् ॥१०२॥ ३१/६ यत्र ब्रह्म जिनार्चा च, कषायाणां तथा हतिः ।
सानुबन्धा जिनाज्ञा च, तत् तप: शुद्धमिष्यते ॥१०३॥ ३१/७ तदेव हि तपः कार्य, दुर्ध्यानं यत्र नो भवेत् ।
येन योगा न हीयन्ते, क्षीयन्ते नेन्द्रियाणि च ॥१०४॥ उप./६ निर्विकारं निराबाधं, ज्ञानसारमुपेयुषाम् ।
विनिवृत्तपराशानां, मोक्षोऽत्रैव महात्मनाम् ॥१०५॥ उप./९ क्लेशक्षयो हि मण्डुक-चूर्णतुल्यः क्रियाकृतः ।
दग्धतच्चूर्णसदृशो, ज्ञानसारकृतः पुनः ॥१०६॥ उप./१० ज्ञानपूतां परेऽप्याहुः, क्रियां हेमघटोपमाम् ।
__ युक्तं तदपि तद्भावं, न यद् भग्नाऽपि सोज्झति ॥१०७॥ उप./११ क्रियाशून्यं च यद् ज्ञानं, ज्ञानशून्या च या क्रिया ।
अनयोरन्तरं ज्ञेयं, भानुखद्योतयोरिव ॥१०८॥