________________
૧૨૧
યતિદિનકૃત્ય સૂક્ત - રત્ન - મંજૂષા १८१ धात्री दूती च निमित्ताजीवावनीपकाश्चिकित्सा च ।
क्रोधोऽथ मानविषयो, मायापिण्डश्च नवमः स्यात् ॥४४॥ १८२ लोभश्च पूर्वपश्चात्संस्तवविद्ये च मन्त्रचूर्णौ च ।
योगोऽथ मूलकर्म च, षोडश दोषा इमे तत्र ॥४५॥ २०५ अथ शङ्किताख्यदोषो, मेक्षितनिक्षिप्तपिहितदोषाश्च ।
संहृतदायकदोषौ, उन्मिश्रोऽपरिणतो लिप्तः ॥४६॥ २०६ छदित इति दश, दोषास्तत्राहारादि दीयमानं यत् ।
दृष्ट्वा प्रचुर शङ्कितम्, आधाकर्मादिदुष्टतया ॥४७॥ २२९ आधाकर्मविभागौद्देशिक-कान्तिमास्त्रयो भेदाः ।
अथ पूतिकर्ममिश्र, प्राभृतिका बादरा या च ॥४८॥ अध्यवपूरक एते-ऽष्टावप्यविशोधिकोटिरस्यार्थः ।
एतत्कोटिरवयव-संमिश्रं शुद्धमपि पूति ॥४९॥ २३१ न क्रीणाति न पचति, न च हन्ति न च कारणादनुमतेश्च ।
पिण्डैषणा च सर्वा, नवकोटिष्वासु समवैति ॥५०॥ एवञ्च दोषरहितां, स्त्रीपशुपण्डकविवर्जितां वसतिम् ।
सेवेत सर्वकालं, विपर्यये दोषसम्भूतिः ॥५१॥ २३८ संस्थाप्य ग्रामादिषु, वृषभं दीर्घाकृताग्रिमैकपदम् ।
अधिनिवासकटिनिविष्टं, पूर्वमुखं वसतिरादेया ॥५२॥ २३९ शृङ्गस्थाने कलहः, स्थानं चरणेषु न भवति यतीनाम् ।
उदररुजाधिष्ठाने, पुच्छे तु स्फेटनं विद्धि ॥५३॥ २४० मौलौ ककुदे पूजा-सत्कारावानने प्रभूतान्नम् ।
उदरे घ्राणिः स्कन्धे, पृष्ठे च भरक्षमो भवति ॥५४॥