________________ कूर्मापुनर्षिकथानकम् 43.] प्राहुस्ते नु कदा स्वामिन् स्वामी प्रोवाच हे शुभाः / तन्मंदिरकथां कूर्मापुत्रादिच्छत भो यदा // 73 // विस्मितास्ते ततो नत्वा जिनं चारणसाधवः / कूर्मापुत्रान्तिके गत्या यावन्मौनेन संस्थिताः // 74 // प्रोक्तास्ते तावता तेन भद्रास्तीर्थकरेण वः / मंदिरं तदनाख्यातं तन्महाशुक्रगं किल / / 75 // निशम्यैवमिमे जातजातिस्मृत्या शुभाशयाः / केवलज्ञामिनो जाताः क्षपकश्रेणिसंश्रयात् / / 76 // . जिनं गत्वाथ ते सस्थुः पुनः केवलिपर्षदि / हरिराह तातोहन्तं मानमन् किमिमेधुना // 77 // स्वाम्याहैषां समुत्पन्नं कूर्मापुत्राद्धि केवलम् / जगदिन्द्रः कंदा कूर्मापुत्रो भावी महाव्रती // 78 // सप्तमेह्नि दिनादस्मात्तृतीयप्रहरे हरे / ग्रहीष्यति मुनेर्वेष कूर्मापुत्रो हि केवली // 79 // पितरौ स्वौ क्रमात् कूर्मापुत्रस्तु भगवानितः / संबोध्य प्रापयदीक्षां दाना इति महत्तरां // 80 // कूर्मापुत्रः केवली भव्यलोकान्संबोध्य स्वैर्वाग्विलासैरनेकान् / शैलेश्या स्वं भूरिकर्मावशेषं क्षिप्त्वा क्षिप्रं प्राप मोक्षं चिदात्मा // 81 // कूर्मापुत्रचरित्रं पवित्रमाकर्ण्य भो जनाभविनः / शिवसुखदायिनि धर्म यत्नं कुरुतामितं सततम् // 42 // // इति कर्मापुर्षिकथानक समाप्तम् //