________________ for पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् // मातुः दुहितुः स्नुषायाः अथवा भगिन्यादीनाम् / यत्र न आर्या आख्याति गुप्तिविभेदं स गच्छः // 131 / / (प्र.अ.) - 'माऊए.' इत्यादि, यत्र = गच्छे आर्या मातुर्दुहितुः स्नुषाया भगिन्यादीनां गुप्तिभेदं नामभेदं नाख्याति / हे गौतम ! स एव गच्छो गुणसमुदायरूपः // 131 // (द्वि.अ.) - 'माऊ०' इत्यादि, यत्र = गच्छे आर्या निजमातुः पितुः दुहितुः स्नुषाया भगिन्यादीनां च गुप्तिविभेदम् = नामगोत्रादि न कथयति, स गच्छः // 131 // दंसणियारं कुणई, चरित्तनासं जणेइ मिच्छत्तं / दुण्हवि वग्गाणऽज्जा, विहारभेयं करेमाणी / / 132 / / दर्शनातिचारं करोति चारित्रनाशं जनयति मिथ्यात्वम् / द्वयोरपि वर्गयोः आर्याः विहारभेदं कुर्वाणाः // 132 // (प्र.अ.) - 'दसण०' इत्यादि, यत्र = गच्छे दर्शनातिचारं करोति, मिथ्यात्वं करोति = जनयति, चारित्रनाशं जनयति, किम्भूता साध्वी ? द्वयोः = साधुसाध्वीवर्गयोविहारभेदं कुर्वाणा // 132 // (द्वि.अ.) - 'दंसण०' इत्यादि, यत्राऽऽर्या दर्शनातिचारं करोति, मिथ्यात्वं जनयति, चारित्रनाशं जनयति, किम्भूता साध्वी ? द्वयोः = साधुसाध्वीवर्गयोः विहारभेदम् = मार्गविनाशं कुर्वाणा // 132 // तम्मूलं संसारं, जणेइ अज्जावि गोयमा ! नूणं / तम्हा धम्मुवएसं, मुत्तुं अन्नं न भासिज्जा ||133|| तन्मूलं संसारं जनयति आर्याऽपि गौतम ! नणं / तस्मात् धर्मोपदेशं मुक्त्वा अन्यत् न भाषते // 133 / / (प्र.अ.) - 'तम्मूलं०' इत्यादि, आर्या धर्मोपदेशं मुक्त्वा यत्र = गच्छे अन्यद् न भाषते / अन्यसावधवचनभाषणे हे गौतम ! तन्मूलं संसारं जनयति = तन्मूलं संसारसमुद्रं जनयति // 133 / / - - - - 1. 'दंसणइयार' H-प्रते / 2. 'मोत्तं' D-आदिप्रते /