________________ 150 for श्रीगच्छाचारप्रकीर्णकम् // प्रोतयित्वा च वस्त्राणि गृहस्थेभ्यो ददति, गृहकार्यचिन्तिकाः, सा आर्या न भवति // 124 // 'खरघोडाइट्ठाणे, वयंति ते वा वि तत्थ वच्चंति / वेसत्थीसंसग्गी, उवस्सयाओ समीवंमि ||125 / / खरघोटकादिस्थाने व्रजन्ति ते वापि तत्र व्रजन्ति / वेश्यास्त्रीसंसर्गिः उपाश्रयः समीपे // 125 / / (प्र.अ.) - 'खरघो०' इत्यादि, खरघोटकान् नटविटपुरुषादिस्थानानि, तत्र साध्व्यो व्रजन्ति, नटविटादयस्तत्रोपाश्रये व्रजन्ति, उपाश्रये वेश्यासंसर्गो यत्र भवति, सा आर्या न कथ्यते // 125 // (द्वि.अ.) - 'खर०' इत्यादि, खरघोडा नटविटास्तेषां स्थाने साध्व्यो व्रजन्ति, अथवा ते च तत्र साध्वीवसतावागच्छन्ति, उपाश्रये वेश्यासंसर्गो जायते // 125 / / छकायमुकूजोगा, धम्मकहा विगह पेसण गिहीणं / गिहिनिस्सिज्ज बाहिंति, संथवं तह करतीओ ||126|| स्वाध्यायमुक्तयोगाः धर्मकथाविकथाप्रेषणगृहिणाम् / गृहिनिषद्यां बाधन्ते संस्तवं तथा कुर्वन्त्यः // 126 // (प्र.अ.) - 'छक्का०' इत्यादि, षटकायमुक्तसंयतव्यापाराः = षट्काययतनारहिताः गृहस्थानां धर्मकथां कथयन्ति / विकथां कुर्वन्ति / गृहस्थानां प्रेषणं कुर्वन्ति / कार्यादौ गृहिनिषद्यां वाहयन्ति = गृहस्थानामासनादिकं मुञ्चन्ति / संस्तवं परिचयं कुर्वन्ति / ताः साध्व्यो न भवन्ति, स गच्छ: आचारसंवेगरहितः, विषं हालाहलं चरेत् तॉपि एतत् गच्छसंसर्गं न कुर्यात् // 126 // (द्वि.अ.) - 'छक्का०' इत्यादि, षट्कायमुक्तसंयमव्यापारास्तेषां यतनां न कुर्वन्तीत्यर्थः, गृहस्थानां धर्मकथां कथयन्ति, विकथां कुर्वन्ति, कार्यादौ गृहिनिषद्यां वाहयन्ति, गृहस्थानामासनादि मुञ्चन्ति, संस्तवं परिचयं कुर्वन्ति / ताः साध्व्यो न भवन्ति // 126 / / 1. 'थलघो०' E-F-G-प्रते / 2. 'छक्कायमुक्क०' E-H-प्रते / 3. निस्सेज' H-प्रते / 4. 'वाहिति' D E-F-G-H-प्रते / 5. 'मासातनादिक' इति A-प्रति / - - - -