________________ 138 for श्रीगच्छाचारप्रकीर्णकम् // कारणमकारणेणं, अह कहवि मुणीण उद्यहि कसाए / उदएवि जत्थ रुंभहि, खामिज्जइ जत्थ तं गच्छं ||99|| यत्र मुनीनां कषायाः दीप्यमाना अपि परकषायैः / नेच्छन्ति समुत्थातुं सुनिविष्टः पंगुलश्चैव // 17 // धर्मान्तरायभीताः भीताः संसारगर्भवसतिभ्यः / नोदीरयन्ति कषायान् मुनयः मुनीनां स गच्छः // 98 // कारणेन अकारणेनाथ कथमपि मुनीनां उत्तिष्ठन्ति कषायाः / उदयेऽपि यत्र रुध्यन्ते क्षाम्यन्ते यत्र स गच्छः // 99 / / (प्र.अ.) - 'जत्थ य०' इत्यादि, यत्र = गच्छे मुनीनां कषायाः परकषायैः दीप्यमाना अपि उत्थातुं न इच्छन्ति / (अत्र) दृष्टान्तमाह - सुनिविष्टपंगुर्यथोत्थातुं न शक्नोति तद्वत् // 97 // (द्वि.अ.) - 'जत्थ०' इत्यादि, यत्र = गच्छे मुनीनां कषायाः परकषायैरपि दीप्यमाना उत्थातुं न इच्छन्ति सुनिविष्टपंगुर्यथोत्थातुं न शक्नोति // 97 // (प्र.अ.) - 'धम्मं०' इत्यादि, धर्मान्तरायभीताः = धर्मविघ्नभयभ्रान्ताः / संसर्यते यत्र संसारः, स एव गर्भः, तत्र वसतिभ्यो भीताः / एवंविधा मुनयो अन्यमुनीनां कषायान् = क्रोधादीन् नोदीरयन्ति / हे गौतम ! स गच्छः // 98 / / (द्वि.अ.) - 'धम्मं०' इत्यादि, धर्मान्तरायभीताः, संसारगर्भवसतिभ्यो भीता एवंविधा मुनयः मुनीनां कषायान् यत्र नोदीरयन्ति स गच्छः // 98 // (प्र.अ.) - 'कार०' इत्यादि, कारणे निष्कारणे वा / अथवा कथमपि मुनीनां कषाया उत्पद्यन्ते / उत्पन्नाश्च रुध्यन्ते क्षाम्यन्ते च यत्र गच्छे स गच्छः // 99 // (द्वि.अ.) - 'कार०' इत्यादि, कारणे निष्कारणे वा / अथवा कथमपि मुनीनां कषाया उत्पद्यन्ते / उत्पन्नाश्च रुध्यन्ते क्षाम्यन्ते च यत्र स गच्छः // 19 // सील-तव-दाण-भावण-चउविहधम्मंतरायभयभीए | जत्थ बहू गीयत्थे, गोयम ! गच्छं तयं भणिअं ||100||