________________ 12 fon पूर्वमहर्षिप्रणीत-अवचूरिद्वयसमन्वितम् / ___ (प्र.अ.) - 'इच्छि०' इत्यादि, यत्र = गच्छे सदा = निरन्तरं द्वितीयपदे = अपवादपदेऽपि प्रासुकमेवोदकं गृहीतुमिष्यते, आगमोक्तविधिना निपुणं यथा स्यात् तथा, हे गौतम ! स एव गच्छ आश्रयतया भणितः // 7 // (द्वि.अ.) - 'इच्छिय०' इत्यादि, हे गौतम ! यत्र = गच्छे सदा इष्यते द्वितीयपदेनापि = अपवादपदेनापि आगमोक्तविधिना यथा स्यात्तथा प्रासुकोदकं, हे गौतम ! स गच्छ इति // 78 // जत्थ य सूल विसूइय अन्नयरे वा विचित्तमायके / उप्पण्णे जलणुज्जालणाइ, कीरइ न मुणि तयं गच्छं 79|| यत्र च शूले विशूचिकायां अन्यतरस्मिन् वा विचित्रातङ्के। उत्पन्ने ज्वलनोज्ज्वालनादि, क्रियते न मुने ! स गच्छः // 79 // (प्र.अ.) - 'जत्थ०' इत्यादि, यत्र = गच्छे शूले विशूचिकायां वा अन्यस्मिन् विचित्रातंके = रोगोद्भवे सति यत्र ज्वलनोज्ज्वालनम् = अग्निप्रज्वालनं न क्रियते स गच्छः // 79 // . (द्वि.अ.) - 'जत्थ०' इत्यादि, यत्र च शूले विशूचिकायां वा अन्यतरस्मिन् विचित्रे = नानाविधे आतंके उत्पन्ने सति यत्र ज्वलनोज्ज्वालनम् = अग्निप्रज्वालनं न क्रियते स गच्छः // 79|| (प्र.अ.) - अथ कदाचित् काचिदग्निकार्ये उत्पन्ने कथं क्रियते ? तदाह - (द्वि.अ.) - अग्निकार्यं कदाचिद् समुत्पन्नं भवति तदा - बीयपएणं सारूविगाइ सड्ढाइमाइएहिं च | कारिती जयणाए, गोयम ! गच्छं तयं भणियं ||80|| द्वितीयपदेन सारूपिकादि-श्राद्धादिआदिभिश्च / कारयन्ति यतनया, गौतम ! गच्छ: स भणितः // 80 / / - 1. 'आश्रयः तया' इति A-प्रते / 2. 'न करेइ, तं गच्छं' A-D-E-H-प्रतपाठः /