SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ जैन योग : चित्त-समाधि इति / __अथ तदनुप्रेक्षा उच्यन्ते-'अणंतवत्तियाणुप्पेह' त्ति / अनन्ता-अत्यन्तं प्रभूता वृत्ति.–वर्तनं यस्यासावनन्तवृत्तिः, अनन्ततया वा वर्तत इत्यनन्तवर्ती तद्भावस्तत्ता, भवसन्तानस्येति गम्यते, तस्या अनुप्रेक्षा अनन्तवृत्तितानुप्रेक्षा अनन्तवर्तितानुप्रेक्षा वेति, यथा एस अणाइ जीवो संसारो सागरोव्व दुत्तारो। नारयतिरियनरामरभवेसु परिहिंडए जीवो // [ इति। एवमुत्तरत्रापि समासः / नवरं 'विपरिणामे' त्ति विविधेन प्रकारेण परिणमनं विपरिणामो वस्तूनामिति गम्यते, यथा सव्वट्ठाणाई असासयाइं इह चेव देवलोगे य / सुरअसुरनराईणं रिद्धिविसेसा सुहाइं च // [प्रकीर्णके] 'असुभे' त्ति अशुभत्वं संसारस्येति गम्यते, यथा धो संसारो जंमि (मी) जुयाणओ परमरूवगवियओ। मरिऊण जायइ किमी तत्थेव कडेवरे नियए // [प्रकीर्णके] तथा अपाया आश्रवाणामिति गम्यते, यथा कोहो य माणो य अणिग्गहीया, माया य लोभो य पवडमाणा। चत्तारि एए कसिणा कसाया, सिंचंति मूलाइं पुणब्भवस्स // [दशवै० 8 / 40] इह गाथा आसवदारावाए तह संसारासुहाणुभावं च / . भवसंताणमणंतं वत्थूणं विपरिणामं च // [ध्या० श० 88] इति / 1 एष जीवोऽनादिः सागर इव संसारो दुरुत्तारः / जीवो नारकतिर्यग्नरामरभवेषु परिहिंडते // 2 इह देवलोके च सर्वाणि स्थानान्यशाश्वतान्येव / सुरासुरनरादीनामृद्धिविशेषाः सुखानि च // 3 धिक् संसारं यस्मिन् युवा परमरूपवितः / ___ मृत्वा कृमिर्जायते तत्रैव निजे कलेवरे // 4 क्रोधो मानश्चानिगृहीतौ माया च लोभश्च विवर्धमानौ / चत्वार एते कृत्सनाः कषायाः पुनर्भवस्य मूलानि सिञ्चन्ति / 5 आश्रवद्वारापायान् तथा संसाराशुभानुभावं च / अनन्तं भवसन्तानं वस्तूनां विपरिणामं च //
SR No.032865
Book TitleJaina Meditation Citta Samadhi Jaina Yoga
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherJain Vishva Bharati
Publication Year1986
Total Pages170
LanguageHindi, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy