SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ बारम्-इति वाच्यं प्रमाणम् / पञ्च वर्षारय हं पीरं सत्यसन्धं धनजयन् / यन्न पश्यामि बीभत्सुतेन तप्ये वृकोदर / / (वन० 14117) इति भारतं च / मद्य कतिपयान्य हानि नैवागच्छति / अथ बहूनि दिनानि नावसते इति चोभयाभिसारिकायां धूर्त विट संवादे च / वासराणीत्यादिषु द्वितीयाऽत्यन्तसंयोगे / कालो झत्र वर्तमानकालिक्या क्रियया साकल्येनाभिव्याप्त इति तदुपपतिः / केवियुक्ताऽध त्रीणि वासराणि वर्षतो देवस्येति संस्कृतं साधु पश्यन्ति ! तन्न / अनानुकृतौ कालः प्रधान किया चोपसर्जनम् / वर्षणं हि कृत्प्रत्ययेन शत्रा कालसम्बन्धितयोक्तमिति व्यक्तमप्रधानम् / मूलहिन्दीवाक्ये तु विपर्ययेणार्योपल्यास इति बिम्बप्रतिबिम्बावजमजहतीति पूर्वोक्त लक्षणं नाम्वेति / ___ इदं बापरमेतज्जातीयकं विशृश्यम् / 'छः महीने पूर्व एक भीषण भूकम्प माया, महमूद ने भारत पर एक हजार वर्ष पूर्व पाक्रमण किया तथा पिछले पक्ष में मूसलाधार वृष्टि हुई' इत्यमीषा वाक्यानां किरूपेरणाजसेन संस्कृतेन भवितव्यमिति केचिदिमानीत्थं परिवर्तयन्ति संस्कृतेन- इतः परमासात्पूर्व बलवद् भूरकम्पत, इतो वर्षसहस्रात् पूर्व महमूदो भरतभुवमाचक्राम / इतः सप्ताहद्वयं पूर्व धारासारैरवर्षद् देवः / अपरे इतः षड्भ्यो मासेम्यः पूर्व बलबद् भूरकम्पत / इतो वर्षसहस्रात्पूर्व महमूदो भरतभुवमाधाम / इतः सप्ताहद्वयात्पूर्व धारासारै रबर्षद देवः / इतरे च--षण्मासा भतीता यदा बलवद् भूर कम्पत / वर्षसहस्रमतिकान्तं यदा महमूदो भरतभुषमाचकाम / सप्ताहवयं गतं यदा धारासारैरवर्षद देव इत्येवमुक्तमर्थ मनुवदन्ति / सर्वोऽयं प्रकारो दृष्ट इति नाभिनन्दनीयो विदुषामिति संग्रहेणोपपादयामः-- प्रकारत्रितये प्रथमः प्रकारस्त्वापाततोऽप्यरम्यः सुतरां च जघन्यः / इह परमासानिरयादिषु यथा प्रथमाऽनन्वयिनी तथा द्वितीयाऽपि / द्वितीया हात्यन्तसंयोगे बिहिता, स चान नेष्टः, तेल कुतोऽत्र द्वितीया सूपपादा स्यात् / सर्वथा:नरिबलं पदकदम्बकभिहोपन्यस्तमितो वाक्यमपि न सवति, मूलानुकारिता तु दूरापेता। द्वितीयस्मिन्प्रकारे इतः परम्पो मासेभ्यः पूर्वमित्यादि यद्यपि सर्वथा सस्कारव व्याकरणानुगतं च,तथापि विवक्षितार्य नायतीति नैषानुकृतिरनवा भवति / इदनावद्यन् नूले समय स्वैकोऽधिरमितः संस्कृत छायायां स्ववधियं व्यक्तमुदितम्जवति / यश्च क्रियाविशेषाभिव्याप्तः कालोऽत्यगानासौ परिच्छिन्नः। प्रत्र वाक्येषु त्विदमादिरों विस्पष्टः भूकम्पादियतिकरो नामातीते मासषटकादो काले नाभूत्, ततः पूर्व कदाभूदिति न सुज्ञानमस्ति / वक्तुश्च नषा विवक्षेत्ययमपि प्रकारो हेयः / तृतीयस्मिन्प्रकारेऽपि दोषं विभावयन्ति
SR No.032858
Book TitleAnuvad Kala
Original Sutra AuthorN/A
AuthorCharudev Shastri
PublisherMotilal Banarsidass Pvt Ltd
Publication Year1989
Total Pages278
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy